________________
आगमपरिच्छेदः ।
२६५
पूर्व बुझेरुत्तरबुद्धप्रत्पादस्यापि दुरुपपादत्वात् स्मरणं न कथञ्चित् सङ्गतिमङ्गति ॥ १०८ ॥ अथोक्तन्यायेनैव बोडाभिमतं क्षणिकत्वमपि कुयितुमाह ।
एतेनैव क्षणिकत्वं निरस्तं शेयमिति ॥ एतेनेति । बुद्ध्यात्मनोराश्रयायिभावव्यवस्थापनन । यत्सत्तत् क्षणिक संश्च घटादिरित्यादिसाधनसाधितं क्षणिकत्वं व्यपास्तं जेयम् । तथाहि । क्षणिकले सत्त्वं हेतुस्तत्सत्त्वं किं प्रमेयत्वमर्थक्रियाकारित्वं वा । नायः पक्ष: । प्रमेयत्वस्य नित्यपक्षेऽपि विद्यमानत्वेनानैकान्तिकत्वात् । सर्ववस्तूनां क्षणिकलानित्यपक्ष एव नास्तौति चेन्न । क्षणिक त्वसाधकस्य हेतोरसिद्धत्वेन क्षणिकत्वस्थाद्याप्यप्रसिद्धत्वात् । नापि द्वितीयः । क्षणिकत्वे क्रमयोगपद्या. भ्यामर्थ क्रियाकारित्वस्य दुर्घटत्वात्। तथाहि । क्षणिकोऽर्थ: स्वामर्थकियां क्रमेण कु•द्योगपद्येनोभयरू पण वा। नाद्य:कल्पस्तस्याक्रमत्वात् । क्रमवत्त्वेऽपि वा कतिपयक्षणस्थायकत्वेन क्षणिकत्व भङ्गात्। न द्वितीयः । योगपद्येनै कस्मिन्नेव क्षणे सकलकलाकलापयाधिकाय्यैकदम्बकस्य नियादितत्वात् द्वितीयादिक्षणे क्षणिकत्वेन तस्यासत्त्वात् सकलशून्यतापत्तेः । न रतीय उभयपक्षोपक्षिप्तदोषानुषङ्गात् । इति सत्त्वहेतोरसिद्धत्वात् नत एव क्षणिकलपक्षः। तथाच प्रयोगः। नास्ति क्षणिकै कान्तोऽर्थक्रियाकारित्व विरहाइह्माहेतवदिति ॥ ११० ॥ एवं क्षणिकत्वस्य युक्तिबाधानुबोध्य प्रत्यक्षबाधान् दर्शयति ।
३४
Aho! Shrutgyanam