________________
आगमपरिच्छेदः ।
२६३ ततश्चाचार्यानुभूतं शिष्यः स्मरेदिति त्वयोक्तो दोषो नात्र सावकाश इत्यर्थः ॥ १०६ ॥ परोक्तं परिहरति ।
न। साधनदूषणाभावादिति ॥ स्वपक्षस्य साधनम् । परपक्षस्य दूषणम् । तयोरभावान युक्त एष कर्यासरतताख्यो दृष्टान्तः ॥ १०७ ॥ तमेव साधनदूषणाभावं विभावयति । अन्वयाद्यभावान्न साधनमसिद्धत्वाद्यनुद्भावनान दूषणमिति ॥
अन्वयेति । सति सद्भावोऽन्वयव्याप्तिरादिशब्दादसत्यसद्भावी व्यतिरेकव्याप्तिः । असिद्धबादौति। अनिश्चितपक्षवृत्तित्वमसिद्धत्वमादिशब्दाविरुद्धत्वादिपरिग्रहः । अयमर्थः। दृष्टान्तो हि स्वपक्षसाधनाय परपक्षदूषणाय वा प्रयुज्यते। कार्पासे रक्ततावदिति त्वदुक्तो यो दृष्टान्तः स न स्वपक्षसाधनाय पूर्वज्ञानानुभूतमुत्तरज्ञानं स्मरति। कार्यकारणभावापत्रखात् कापास रततावदिति भवदनुमाने दृष्टान्तदा न्तिकयोवैषम्येनान्वयव्याप्ताजनकत्वात् । यतो बौद्धमते कारणभूतायाः पूर्वबुडेनिरन्वयविनाशाङ्गोकारात् तदुपरागो नोत्तरबुद्धौ संक्रामति । दृष्टान्ते च कार्पासे लाक्षारमरतिमा बोजविनाशात्परमाणषु संक्रम्य हाणुकादिव्याप्तमा कार्य भवतीति दृष्टान्तदान्तिकयोवैषम्यं स्पष्टम् । तथा यत्र न स्मृतिस्तत्र न कार्यकारणभावापनत्वमिति व्यतिरकव्याप्तिरघि नास्ति । नापि परपक्षदूषणाय पूर्वज्ञानानुभूतार्यमुत्तरजानं न स्मरति। ततो विभिनत्वादन्य सन्तानबुद्धिवदित्यत्र पर
Aho! Shrutgyanam