________________
न्यायतात्पय्य दीपिका ।
एतेनेति अन्यानुभूतेऽन्यस्य स्मरणं न भवतीति वचनेन । पूर्व बुडानुभूतेत्यादि बौद्धरादान्ते नैरामेोऽपि पूर्वानुभूतमर्थ - मुत्तरबुद्धिः स्मरति कार्य्यकारणभावात् । स चैवम्। पूर्वबुद्धिर्वस्वनु भवति तदनु खसगौमुत्तरबुद्धिमुत्पाद्यात्म संस्कारं तत्र निवेश्य क्षणिकत्वाद्दिनश्यति । तत्र पूर्वबुद्धिः कारणमुत्तरबुद्धिः कायैमेवं पूर्वोत्तरबुद्योः काय्र्यकारणभावेन स्मरणं यदुक्तं तदपि निरस्तम् । इयोर्बुझोर्मिंथो भेदेन कथनात् । अयं भावः । पूर्वोत्तरबुद्धः कार्य्यकारणभावेऽपि भेदोऽस्ति न वा । नास्तीति चेत् कथं कार्य्यकारणभावस्तस्य भेदनिबन्धनत्वात् । अस्तीति चेतर्हि यथा चैत्रमैत्रयोरन्यत्वेन चैत्रानुभूतं मैत्रो न स्मरति । तथा पूर्वबुद्धानुभूतमुत्तरबुद्धिर्न मरिष्यति । अन्यत्वेनाविशे
२६२
षात् ॥ १०५ ॥
भेदेऽपि यदि पूर्वानुभूतं कार्य्यकारणभावादुत्तरबुद्धि: स्मरति । तदाचाय्यानुभूतं शिष्यः स्मरेदत्रापि कार्यकारणभावस्य विद्यमानत्वादित्याशङ्का परः परिहरति ।
कार्पासे रक्ततावदिति चेदिति ॥
यथा कर्पासबोजे लाक्षादिरज्जकद्रव्यनिष्यादिता रक्तता भेदसाम्येऽपि रक्तबीज सन्तान एव पुष्पादी रक्ततां व्यनक्ति । न बीजान्तर सन्ताने । तदुपाध्यायबुद्धिजन्मा संस्कारोऽपि सन्तान एव स्मृतिमुद्धावयति । न शिष्यादौ भिन्नसन्तानत्वात् । तदुक्तम् । यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव सन्धते कार्पासे रक्तता यथा ॥
Aho ! Shrutgyanam