________________
आगमपरिच्छेदः ।
श्रतएव शरीरस्थापि बाल्यकौमारादिभेदभिन्नत्वादस्मरणमिति ।।
अन्यानुभूतमन्यो न स्मरतीत्यत एव न्यायात् शरीरस्यापि स्मरणं नोपपद्यते न केवलमिन्द्रियाणामित्य परर्थः । कुत इत्याह । बाल्ये त्यादि । आदिशब्दात्तारुण्यवाई क्यभेदग्रहः। अयमर्थः । अल्पपरिमाणावच्छिन्ने महापरिमाण स्यासम्भवादालशरीरात्कौमार. साकण्यवाई कशरीराणि भिन्नानि । तेन यदि शरीराश्रयं चैतन्य स्यात्तदा येन बालशरीरेणानुभूतं तन्नष्टं ततस्तरुणादिशरीराणां स्मरणं न स्यादन्यानुभूतेऽन्यस्मरणाभावादस्ति च स्मरणं तस्मान्न शरीराश्रयं चैतन्यम् । प्रयोगो प्रागवत् । बालशरीरवदिति । यथा शरीरं नानुभूतभातुक करणत्वाहासादिवत् । तथा बालशरीरानुभूतं तरुणगरीरं न स्मरति । अन्यानुभूतत्वाञ्चैत्रानुभूतं मैत्रवदिति प्रयोगः । बालशरीरात् कौमारशरीरं पृर्थागत्यत्र किं प्रमाणमिति चेदुच्यते। विवादाध्यामिते परिमाणे भिन्नाश्रये होनाधिकपरिमाणत्वात् घटशवपरिभाणवदिति । परिमाणमेव विनंत्यति न तु शरीरमिति चेन्न । विवादास्पदं परिमाणमाश्रयविनाशादेव विनश्यति परिमाणत्वात् मुहराभिहसविनष्टघटपरिमागावदिति ॥ १०४ ॥ उक्तन्यायातिभेन बोइमतऽपि स्मरणं नीय पद्यत इत्याह ।
एतेन पूर्वबुद्धानुभूतऽर्थे उत्तरबुद्धेः कार्यकारणभावात् स्मरणमपास्तमन्य त्ववचनादितिः ।
* The Text reads "Raiatutafa" ( See page 36. Line 15 ).
Aho! Shrutgyanam