SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रागमपरिच्छेदः । २५६. एक एव रुद्रः परमात्मास्ति । द्वितीयो नावतस्ये न स्थितः । ईशते प्रभवन्तौतीमिन्यः शक्तय इच्छाज्ञानक्रियारूपास्ताभिर्य इमांल्लोकान् जगन्ति ईशते स्वखजनितक फलोपभोक्तृत्वेन निय मयति । ईशत इत्यत्र वैदिकत्वादेकवचने शक् । क्वापि न द्वितीयाय तस्थे इति पाठः । तत्र द्वितीयायेति सहार्थे तृतीया - स्थाने चतुर्थी । ततो द्वितीयेन सह न तस्थे किन्त्वेक एवेत्यर्थः । तस्थे इत्यात्मनेपदं वैदिकत्वात् । चशब्दादन्योऽप्यागमो ज्ञेयः ॥८८॥ अपरात्मस्वरूपमाह । संसारफलोपभोक्तानन्तोऽपर इति ॥ संसारफलं सुखदुःखादिकं तदाखादकोऽनन्तोऽनेकविधोऽपरः संसार्यात्मा भवति । संसारे फलोपभोक्तेत्यनेन परमात्मन्यतिव्याप्तिनिवृत्तिः । अनन्त इत्यनेन ब्रह्माद्वैतव्यवच्छित्तिः ॥ ८८ तस्यातिसौक्ष्मप्रादप्रत्यचत्वे तत्साधकमनुमानमाह म खलु बुझादिकार्य्याणां आश्रयभूतोऽनुमातव्य इति ॥ स इत्यात्मा । बुझादीत्यत्रादिशब्दात् सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मादिग्रहः | श्राश्रय इत्याधारः । आत्मा बुद्धप्रादिकार्याणामाधारतयानुमानेन ज्ञेय इत्यर्थः । अनुमानं यथा । बुयादयः कचिदाश्रिताः कार्य्यत्वाहुणत्वात् चापादिवदिति । पुरस्तादिन्द्रियादीनां निषेत्यमानत्वेन पारिशेष्यादात्माधार इति ॥ १०० ॥ * --- --- The text reads “जीवोऽपरः" (See page 36, line 8 ). Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy