________________
२५८
न्यायतात्पर्यदीपिका। प्रत्ययः पारिशेणं तस्मात् । कार्यविशेषादिति क्षित्यादिकार्यवैशेष्यात् । अयमर्थः । प्रागुता सामान्यव्याप्तिस्तावनिर्दोषत्वात् केनापि प्रतिहन्तुं न शक्यते । तत: सामान्यव्याप्ते: सामान्येन कर्तसिद्धौ जातायामम्मदादिषु कत्तृत्वप्रसक्तावस्मदादिभिः क्षित्यादेजनयितुमशक्तत्वेन पारिशेष्यात् क्षित्यादि कार्यवैशेष्याच कर्तविशेषसिद्धिर्भवति । चित्रादिदृष्टान्तेन यथा विशिष्टचित्रादिदर्शनाद्विशिष्टचिन कदादितत्क-सिद्धिस्तथेति। तथाच प्रयोगः। क्षित्यादिकं विशिष्ट कर्तजन्य विशिष्ट कार्यवाहिशिष्टचित्रादिवदिति ।
ननु कवैशिष्ट्यसिद्धावपि शरीयेव कर्त्ता सिद्धयति । न तद्विलक्षणः। तथाहि ईश्वरः शरीरी कर्तृत्वादम्मदादिवदिति । शरीरित्वे च कथं तस्य क्षिल्यादिकम्मनिष्णत्वम् । तथाच प्रयोगः । ईश्वरः क्षित्यादिकर्ता न भवति शरीरित्वादस्मदादिवदिति चेन्न । हेतोराश्रयासिद्धत्वात् । सिद्धौ वा शरीरित्वकर्तृत्वसाधकप्रमाणाभ्यां बाधः। ननु कत्तुरशरीरत्वं चेदभिप्रेतं तश्वर, कर्त्ता न भवत्य शरीरित्वान्मुक्तात्मवदिति न कर्तुत्वसिद्धिरिति चेन्न। शरीरप्रेरकेणात्मनानकान्तिकत्वात् ॥ २७॥ अथ परात्मसद्भावे आगमं दर्शयति ।
*एको रुद्रो न द्वितीयोऽवतस्थे य इमाल्लोकानीशते ईशनोभि रित्यागमाञ्चेति ॥
* The Text rends o हितीयोऽथ तस्थे सूर्य दूब मां ० (Sce nge 36 [ine 6).
Aho! Shrutgyanam