________________
प्रागमपरिच्छेदः ।
२५०
पद्याद्भवतीत्येवं शीलमभूत्वाभावि तद्भावस्तत्वं तस्मात् । अत्र व्याप्तिः स्वयमेव काया। अयमर्थः । यथा वस्त्रादिकं प्रागभूत्वा पश्चाद्भवत् बुद्धिमत्तन्तुवायपूर्वकम् । तथा भूभूधरादिकमपि प्रलयकाले भूत्वा पवात् प्रादुःषत् बुद्धिमत्पूर्वकं सिद्धातीति कर्तसिद्धिः । न चाहासिद्धताबन्धको सम्बन्धचिन्त्यः । पक्षे हेतोनिश्चितकृत्तित्वात् । अन्धतरासिद्धोऽयं हेतुरिति चेत् । न । हेत्वन्तरण साध्यमानत्वात् । तथाहि विवादाध्यासितमभूत्वाभावि विशिष्टरचनावत्त्वात् ग्रामादादिवदिति । नापि विरुद्धता व्योमा. दिभ्यो निहत्तत्वात् । नाप्यने कान्तिकता विपक्षादत्यन्तव्यावृत्तेः । नापि कालात्ययापदिष्टता प्रत्यक्षाद्यबाधितधर्मिणि वृत्तत्वात् । नापि प्रकरणसमता स्वपरपक्षमिडौ हेतोम्रुप्याभावात् । ___ अथ भूभूधरादिकं बुद्धिमत्पूर्वकं न भवति । सशरीराजन्यवाघोमवदिति प्रत्यनुमानवाधितोऽसौ हेतुरिति चेन्न। अङ्गुरादिभिरने कान्तिकत्वात् ॥ ८६ ॥
नन्वस्मिन्ननुमान व्याप्तिजलात्कामात्रस्यैव सिद्धिर्न पुनविशिष्ट कर्तरित्याशङ्कयाह ।
सामान्य व्याप्तेरनवद्यत्वेन निराकर्तमशक्यत्वात्ततः सामान्यसिद्धौ पारिगेष्षात्कार्यविशेषाच कर्तृविशेषसिद्धिशिनादिकार्यविशेषात्तत्कर्त्तविशेषसिद्धिवदिति ।
सामान्यव्याप्ते रिति यदभूत्वाभावि तदुपलश्चिमत्कारणकमिति सामान्यव्याप्तेः । अनवद्यत्वेने ति असि त्वादिदोषशून्यत्वेन । पारिशेप्यादिति प्रमक्तप्रतिषेधेऽन्यत्र प्रसङ्गात् शिष्यमाणः
Aho! Shrutgyanam