________________
२५६
न्यायतात्पर्य दीपिका ।
तन्निरासाय पर इति । परः श्रेष्ठः । परत्वं सांख्याभिमते प्रधानेऽप्यस्तीति तदपास्तये भगवानिति । भगवान् पूज्यः । भगवत्त्वमु त्तमेष्वन्यस्तीति तत्परिहाराय महेश्वर इति । महेश्वरो महानधिपतिः । महेश्वरत्वर्वाचीनेष्वपि सम्भवतीति तद्विनिवृत्तये सर्वज्ञ इति । सर्वज्ञो विश्ववेदी । सर्वज्ञत्वं योगिष्वपि भवतीति तदपास्तये सकलजगद्दिधाता विश्वस्स्रष्टा । एवमैश्वय्यादिगुणविशिष्टः परमात्मा पर: क्षेत्रज्ञो भवति । कश्चिवैश्वय्र्यविशिष्ट इति १ संसारधमैरीषदप्यस्पृष्ट इति २ परो भगवान् महेश्वरः सर्वज्ञ इति ३ सकलजगद्विधार्तति : चतुर्लक्षणों परमात्मनो मन्यते । यथायुक्तमर्थी ग्राह्यः सुधीभिः ॥ ८३ ॥ शिष्यः पृच्छति ।
स कथं ज्ञातव्य इति ॥
प्रत्यक्षत्वाभावात् केन प्रकारेण ज्ञेय इत्यर्थः ॥ ८४ ॥
प्रत्युत्तरयति ।
अनुमानादागमाच्चेति ||
स्पष्टम् ॥ ८.५ ॥
तत्रानुमानं दर्शयति ।
तथाहि विवादाध्यासितमुपलब्धिमत्कारणकमभूत्वाभावित्वा-. हस्तादिवदिति ॥
विवादाध्यासितमिति भूभूधरादिकम् । उपलब्धीत्यादि । उपलब्धिमान् बुद्धिमान् कारणं निदानं यस्य तदुपलब्धिमत्कारएकं बुद्धिमत्पूर्वकमित्यर्थः । अभूत्वेत्यादि । प्रागभूत्वा अनुराध
Aho ! Shrutgyanam