________________
आगमपरिच्छेदः ।
२५५
स हिविधः । परश्चापरश्चेति ॥ स इत्यात्मा। पर इति परमात्मा। अपर इति संसारी। अनयोः स्वरूपं स्वयमेव वक्ष्यति पुरः ॥ १ ॥ आमद्वैत श्रुतिसंवादमाह।
तथाचोक्तम् । हे ब्रह्मणी वैदितव्ये परञ्चापरञ्चेत्यादीनि ॥ ब्रह्मणी इति । प्रात्मानी। एतेन ब्रह्माइतं निरस्तं जेयम् ।
ननु तात्त्विकं ब्रह्मैव केवलमस्ति स वै खल्विदं ब्रह्म नेह नानास्ति किञ्चनेति न्यायात्तद्दतिरिक्तः सर्वः प्रपञ्चो मिथ्या प्रतीयमानत्वात् शक्तिशकले कलधौतज्ञानवदिति चेन्न । विकल्पाचमत्वात् । तथाहि मिथ्यात्वं किमत्यन्तासत्त्वमुतातत्त्वेन तत्त्वमनिर्वाच्यत्वं वा। प्राच्थे पक्षहयेऽसत्त्वख्यातिविपरीतख्यातिप्रसङ्गः । तार्तीयिकपक्षेत्वनिर्वायत्वं किं निरुक्तिराहित्यं प्रतीत्यगोचरवं वा। नाद्यः । घटोऽयं पटोऽयमिति निीतोतः सर्वत्र सद्भावात् । न द्वितीयः । प्रत्यक्षेण नियतसंस्थानतया समस्तवस्तुप्रतिभासात् । यथा प्रतिभासते न तथेति चेन्न। विपरीतख्यातिप्रसक्तेरित्यलम् ॥ ४२ ॥ तत्र परं लक्षयति ।
तखर्यविशिष्टः संसारधर्मरोषदप्यसंस्पृष्टः परो भगवान् महेश्वरः सर्वज्ञः सकलजगद्विधाततीति ॥
ऐश्वर्यमप्रतिहतच्छत्वं तेन युक्तः । ऐखयमिन्द्रादिष्वप्यस्तीति तावच्छेदाय संसारधमैरीषदप्यसंस्पृष्ट इति । संसारधर्मा रागद्वेषमोहादयस्तरस्पृष्टः। संसारधर्मास्कृष्टत्वं लयस्थयोगिष्वध्यस्तीति
Aho! Shrutgyanam