________________
२५४
न्यायतात्पश्यदीपिका।
स्यात्तावच्छेदायात्मविषयमित्युक्तम् । तात्त्विकमात्मज्ञानमात्यतिकदुःखत्यागहेतु रित्यर्थः ॥ ८८ ॥
आत्मतत्त्वज्ञानमन्तबुंयात्मनः सम्यक् श्रवणादिभिः सम्पद्यते नान्यथेत्यनार्थे श्रुतिं दर्शयति । तथाचोक्तम् । प्रात्मा वा रे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यामितव्यः । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः । ज्ञात्वा च सततं ध्येय एते दर्शनहेतव इति ॥
आत्मेति क्षेत्रज्ञः । वा एवार्थे । रे इति वक्तः स्त्रिया: सम्बोधनम् । द्रष्टव्य इति बहिरनुमानादिना। देहान्तश्च सुख्यह दुःख्यहमित्यादि प्रत्ययेन ! निदिध्यासितव्य इति निध्यातुमेष्टव्यो दिक्षितव्य इति यावत् । उपपत्तिभिरिति तर्कसम्पर्कककेशाभिर्यक्तिभिर्युतायच पुरो वक्ष्यन्ते । एते श्रुतिश्रवणमननध्यानादयः क्षेत्रज्ञमाक्षात्कार हेतवो भवन्ति । श्रुतिवाक्यादिभिः सम्यक ज्ञात्वात्मा ध्यातव्य इत्यर्थः ॥ ८ ॥ नन्वात्मज्ञानात् किं फलं भवतीत्याह ।
तरति शोकमात्मविदिति ॥ शोकमिति संसारलेशरूपम् । आत्मानं विदित्वा संसारावार पारं तरतीति भावः ॥ ८ ॥ ___ एक एव हि भूतात्मा देहे देहे व्यवस्थितः ।
एकधा बहुधाचैव दृश्यते जलचन्द्रवत् ॥ इत्यादिवचनात् एकएवात्मेत्य तवादिमतमपाकरोति ।
Aho! Shrutgyanam