________________
आगमपरिच्छेदः ।
श्रनित्ये नित्यबुद्धिर्या याशुचौ शुचिवासना ।
अनात्मन्यात्मधी येयमविद्योक्ता शरीरिणामिति ॥ ८४ ॥
तृष्णां लचयति ।
पुनर्भवप्रार्थनं तृष्णेति ॥
पुनर्नवो विशिष्टदेहभोगादिस्तकार्थना पुनः पुनर्याचा तृष्णा
भवति ॥ ८५ ॥
धर्माधर्मावाह |
२५३
सुखदुःखयोरसाधारणी हेतु धमाधम्माविति #
सुखदुःखे प्रतोते । तयोरसाधारणवसामान्यौ यो हेतू तौ धर्माधर्मौ भवतः । सुखहेतुर्द्धर्मः दुःखहेतुरधम्मं इत्यर्थः ॥ ८६ ॥
तृतीयं प्रमेयं प्ररूपयति ।
हानं दुःख विच्छेदः । श्रात्यन्तिकमिति न कदाचित्कथञ्चिहुःखसम्बन्ध इत्यर्थ द्वाँत ॥
हानमित्येतस्य दुःखविच्छेद इति व्याख्या । आत्यन्तिकमिति पदस्य न कदाचिदित्यादि व्याख्या | आत्यन्तिकपदेन कादाचित्कसुखजनितो दुःखोच्छेदो व्यवच्छिद्यते ॥ ८७ ॥
चतुर्थं प्रमेवमाह ।
तस्योपायस्तत्त्वज्ञानमानविषयमिति ॥
तस्यात्यन्तिकदुःखानस्यात्मविषयं क्षेत्रज्ञसम्बन्धि तत्वज्ञानमुपायो हेतुर्भवति । तत्वज्ञानमित्युक्ते यस्य वस्तुनो यो भावस्तत्तस्य तत्खमिति वचनात् सामान्यवस्तुतत्त्वज्ञानमपि तदुपायः
Aho ! Shrutgyanam