________________
२५२
न्यायतात्पर्य्यदीपिका।
याणि विषया बुद्धयथ प्रागुक्तस्वरूपास्त्रयोऽपि दुःखनिवर्तकवाहुःख मिन्द्रियादिवशंवदानामवश्यं दुःखीभवनात् । सुखं तु वैषयिकादिकं दुःखप्रसञ्जनाडुःखं सुखस्य दुःखाविनाभावित्वात् । मुख्यं दुःखं तु बाधनाद्यात्मकम् । लोक शास्त्रे च तस्यैव मुख्यवृत्त्या दुःखशब्दवाच्यत्वात् । एतन शरोरादौनामोपचारिक दुःखत्वमावेदितम् । तेषामपि दुःखहेतुत्वादिति ॥ २ ॥ हितीयं प्रमेयमाह।
तस्य निर्वर्तकमसाधारगं कारगमविद्यालो धर्माधर्माविति || ____ तस्येति हेयस्यैकविंशतिविधदुःखस्य । निवर्तकमित्यस्य पदस्य व्याख्या असाधारणं कारणमिति । यहा। किञ्चित्रिवर्तकं साधारणमपि भवति तद्दावच्छेदार्थमसाधारण कारणमिति पदम् ! किं निवर्त्तकमित्याह । अविद्येत्यादि। अविद्यादीनां स्वरूपं स्वयमेव वक्ष्यत्यत्र नोच्यते। यद्यपि धर्मः सुखस्य हेतुस्तथापि सुखस्य दुःखाविनाभावित्वात् दुःखहेतुरेदोक्तः ॥८३॥ अविद्यादीनां स्वरूपमाह।
सम्यगध्यात्मविद्भिः प्रदर्शितार्थविपरीतज्ञानमविद्या मह संकारणेति ।
सम्यगध्यात्मविद्भिरिति। तत्त्वज्ञों यथार्थो दर्शितस्तस्य विपर्यस्ततया अनित्ये वस्तुनि नित्यत्वेनानात्मत्वेन यत् सानं सा सुखदुःख हेतुभूतेन वासनापरप-येण संस्कारेण सहिताऽविद्या भवति । मिथ्याज्ञानमविद्येत्यर्थः । तदुक्तम् ।
Aho! Shrutgyanam