________________
न्याय तात्पर्यटोपिका।
तेन किं कार्यमित्याह ।
तदेव तत्त्वतो ज्ञातव्यं सर्वदा भावयितव्यञ्च । न कोटसंख्यादि तज्ज्ञानस्यानुपयोगादितीति ॥
तदेवेति प्रागुक्तलक्षणलक्षितं प्रमेयम् । तत्त्वत इति परमार्थतः । भावयितव्यमिति पुन: पुनश्चेतसि चिन्तनीयम् । अनुपयोगादिति । अमोक्षाङ्गत्वेनेति शेषः । तदेव प्रमेयं तवतो ज्ञेयं यन्मोक्षाङ्गं भवति। न कोटिकोटिकोटकाः सन्त्य त्रेत्यादि ज्ञानममोक्षाङ्गत्वेन तस्य व्यर्थत्वात् । तदुक्तम् ।
मवं पश्यतु वा मा वा तत्त्वमिष्टन्तु पश्यतु ।
कोटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ॥ ७८ ॥ प्रमेयभेदमाह।
तच्चतुर्विधं हेयं १ तस्य निर्वर्त्तक २ हानमात्यन्तिकं ३ तस्थी. पाय ४ इतौति ॥
हेयमिति। हीयतेऽवश्यं परित्यज्यत इति हेयमेकं प्रमेयम् । तस्येति । तस्य हेयस्य निवर्तकं जनकं द्वितीयम्। हानमिति । तस्येति पद स्यात्राम्यनुवर्तनात्तस्य हेयस्यात्यन्तिकं हानं सर्वथा त्यागस्तुतीयम् । तस्येति । तस्यात्यन्तिकहानस्थोपायो हेतुश्चतुर्थे प्रमेयं भवति । __ ननु सूत्रकतामशरोरेन्द्रियार्थबुद्धिमन:प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्त प्रमेयमिति द्वादविधं प्रमेयमुक्तम् । तन्मध्ये प्राद्यन्त्यौ हावुपादेयो शेषा दश हेयाः ।
Aho! Shrutgyanam