________________
आगमपरिच्छेदः।
२४८
प्रमाणं प्रमेयनिष्ठं भवतीति मनसिकत्य शिष्यः प्रमेयं पृच्छति ।
किं पुनरेभिः प्रमाणे प्रमातव्यमिति ॥ प्रमातव्यमिति ज्ञातव्यम् ॥ ७४ ॥ प्रत्युत्तरयति।
उच्यते । प्रमेयमिति ॥ प्रमीयते ज्ञायते इति प्रमेयम् । विषयो गोचर इति धावत् ॥ ७५॥ पुन: पृच्छति ।
किं लक्षणामिति ॥ स्वपरजातीयव्यावर्तको धर्मो लक्षणम्। किं स्वरूप मित्यर्थः ॥ ७६ ॥ पुनरुत्तरयति ।
यहिषयं ज्ञानमन्यज्ञानानुपयोगित्वेनैव नि:श्रेयसाङ्गं भवति तत्प्रमेयमिति ।।
यहिषयमिति यहोचरम् । अन्य ज्ञानेत्यादि । विवक्षितप्रमे यात् वस्त्वन्तरज्ञानान्यन्यज्ञानानि तेषामनुपयोगित्वेनानपेक्षित्वेन । निःश्रेयसमिति मोक्षः । अत्रान्यज्ञानत्यादि विशेषणेन प्रमाणज्ञानस्यात्मादिज्ञानोपयोगित्वेन मोक्षाङ्गत्वात्प्रमाण व्यवच्छेदः । कोऽर्थः । यस्य ज्ञानमज्ञानमनपेक्ष्यैव मोक्ष साधयति तपमेयं भवति । इदं तु प्रमेयस्य विशेषलक्षणमन्यथाद्यपरिच्छेदे प्रमा विषयः प्रमेयमिति सामान्यलक्षणस्योक्तत्वात्पोनरुत्यापत्तेः ॥ ७७ ॥
Aho! Shrutgyanam