________________
२४८
न्यायतात्पर्य्यदीपिका।
प्रयत्नजनिता शरीरतदवयवक्रिया चेष्टेति चेष्टालक्षणम् । चेष्टते विविधक्रियया प्राणी अस्यामिति चेष्टा। प्रयत्नेति । इच्छापूर्वको हस्तादिव्यापारः प्रयत्नः । इदं च पदं वातप्रकोपोत्पन्नवाक्यादिकपदव्यवच्छेदार्थम् । तदवयवेति करादयः शरीरावयवाः । नाद्यशास्त्र भरतकविप्रणीतो ग्रन्थः । आदिशब्दालोकचेष्टादिग्रहः। समयबलेनेति सङ्केतवशेन। अभिप्रायविशेषमिति अाह्वानविसर्जनादिकम् । अर्थविशेषमिति व्यङ्ग्यरूपम् । इच्छापूर्विका देहतदवयवकरादिचेष्टा सङ्केत वशादाशयविशेषं व्यङ्ग्यरूपमधे वावबोधयन्त्यागम एव भवति । न पृथक् प्रमाण मित्यर्थः । लिप्यक्षरादौति दृष्टान्तः । यथा पुरुषाभिप्रायविशेषमर्थविशेषञ्चावगमयतो लिपिरूपाद. काराद्यक्षरादर्थज्ञप्तिांगमाद्भिद्यते । तथा चेष्टापि। यदि चेष्टायाः पृथक् प्रामाण्यमिष्यते। तहि लिप्यक्षरादीनामपि पृथक् प्रामाण्य मेष्टव्यं स्यात्तुल्य न्यायत्वात् । ततश्चेष्टा नागमा द्भियते । समयब लेनाथप्रतिपादकत्वालिप्यक्षरादर्थप्रतिपत्तिवदिति ॥ ७२ ॥
उपसंहरति ।
तदेवं व्यवस्थितमेतत्वोण्येव प्रमाणानीति ॥ व्यवस्थितमिति प्रमाणतर्कयुक्त्या निष्टङ्गितम् । बोण्यवेत्येव. कारचतुवादिनिरासार्थः । एतेन तत्समर्थितं यदुक्तमाद्यपरिच्छेद विविधं प्रत्यक्षमनुमानमागम इति ॥ ७३ ॥
Aho! Shrutgyanam