SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः । अथेतिहामागमेऽन्तर्भावयति । अनिर्हिष्टप्रवक्तृकं • २४७ प्रवादपारम्पर्य में तिह्यमागमेऽन्तर्भूत मिति ॥ अत्रेतिह्यमिति लक्ष्यम् । शेषन्तु लक्षणम् । इतिहशब्दः सम्प्रदायवाचकोऽव्ययः । इतिहैव ऐतिह्यम् । अनिर्दिष्टप्रवक्तृकमिति । अनिर्दिष्टो न निर्णीतः स्वयं दृष्टत्वेन प्रवक्ता यस्येत्यनिर्दिष्टप्रवक्तकम् । प्रवादपारम्पर्य्यमिति वृद्धपरम्परायातो वाक्यप्रघोषः । अनिर्दिष्टवक्तृकं यत्प्रवादपारम्पयें तदैतिह्यं नाम प्रमाणमागमेऽन्तर्भवति । कोऽर्थः । इदमैतिह्यं सत्यमसत्यं वा यदि सत्यं सातवाक्यत्वादागम एव । तथाच प्रयोगः । ऐतिह्यमागम श्रतिवाक्यवात् पुत्रकामो यजेदित्यादिवाक्यवदिति । अथासत्यं तर्ह्य प्रमाण मेवेति ॥ ७० ॥ उदाहरति । यथेह वटे यक्षः प्रतिवसतीति ॥ स्पष्टम् ॥ ७१ ॥ कैविचेष्टा पृथक् प्रमाणत्वेन स्वीकृतास्ति तामभ्यागमेऽन्त भवियति । * प्रयत्नजनिता शरीरतदवयवक्रिया चेष्टा नाद्यशास्त्रादिसमयबलेन पुरुषाभिप्रायविशेषमर्थविशेषञ्च गमयन्ती नागमाद्भिद्यते लिप्यतरादर्यप्रतिपत्तिवदिति ॥ - Aho ! Shrutgyanam * The reading adopted by the commentator here, ditliers somer what from the text ( Sve page 34, Live 8-11 ),
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy