________________
२४६
न्यायतात्पय्य दीपिका ।
ताख्यः सम्बन्धोऽस्ति । माचादनुभावान्यथानुपपत्तेरित्यनुमानानुमितः । स च योग्यताख्यः सम्बन्धो यथा रूपादिष्वस्ति तथा भावानुभवेऽपि । तथा परपक्षेऽपि मत्पक्षे चक्षुः संयुक्तं भूतलं विशेष्यन्तस्य घटाभावो विशेषणमिति स्वरूपः । संयुक्तविशेषणविशेष्यभाषादिः सम्बन्धोऽभावग्रहणेऽस्त्येव । चादिशब्दात् संयुक्तसमवाय संयुक्तसमवेतसमवाय समवाय समवेतसमवायसम्बन्धचतुष्ट संबद्ध विशेषणविशेष्यभावग्रहः । तथाच प्रयोगः । प्रभावानुभव इन्द्रियसम्बन्धपुरस्सरोऽपरोक्षानुभव कार्य्यत्वात् घटाद्यपरोक्षानुभववदिति । ततः त्वदुक्तः सम्बन्धाभावोऽसिद्ध इत्यर्थः ॥ ६७ ॥
पुनः परमतमाशङ्कते ।
संयोगसमवायरहितस्य विशेषणविशेष्यभाषानुपपत्तिरिति
चेदिति ॥
अभावस्यावस्तुत्वात्संयोगसमवायराहित्यम् । तेन विशेषण
विशेष्यभावाघटनेति भावः ॥ ६८ ॥
परिहरति ।
न । विशिष्टप्रत्ययवशेन तत्सिद्धिरितौति ॥
यद्यप्यभावस्य कुत्मरूपत्वात्संयोगः समवायो वा नोपपद्यते । तथापि भूतलं घटाभावविशिष्टमिति विशिष्टप्रत्ययबलेन विशेष विशेष्यभावसम्बन्धसिद्धिर्भवति । यथा गोमानिति । गोमा
नित्यत्र हि संयोगसमवायसम्बन्धाभावेऽपि विशिष्टप्रत्ययवशेन
सिद्धा घटाद्यभावप्रतिपत्तिः
--
गवास्तित्वसम्बन्धसिद्धिरस्तौति
प्रत्यक्षादिति ॥ ६६ ॥
Aho! Shrutgyanam