________________
आगमपरिच्छेदः ।
इन्द्रियव्यापारो नान्यत्र पर्यवसितो रूपे इत्यादिशब्दाद्रसादिवित्राभावेऽपि बाधकाभावात् । कोऽर्थः 1 यथा चक्षुरादीन्द्रियव्यापार सितं रूपं मधुरो रस इत्यादि ज्ञानमुज्जृम्भते । न तत्र किञ्चिद्वाधकं न चान्यत्रेन्द्रियव्यापारस्तथाऽभावग्रहणेऽपीति इन्द्रिय
जनितमेवाभावज्ञानम् ॥ ६४ ॥
पुनः परं शङ्कते ।
सम्बन्धाभावो बाधक इति चेदिति ॥
इन्द्रियाणां संयोगः समवायो वा सम्बन्धो वस्तुना सहीजमति । अभावस्य तु तुच्छरूपत्वात् संयोगः समवायो वा न
सम्भवतीत्यर्थः ॥ ६५ ॥
परिहरति ।
२४५
न | स्वपरपक्षयोरमित्वादिति ॥
यस्त्वया सम्बन्धाभावो बाधक उक्तः स स्वपक्षे त्वत्पक्षे परपक्षे मत्पक्षे चासि इति ॥ ६६ ॥
सम्बन्धाभावस्यासिडत्वं दर्शयति
1
स्वपक्षे तावद्रूपादिविवापरोक्षानुभवकाय्र्यामु मेयो योग्यतायः सम्बन्धः । परपचेऽपि संयुक्तविशेषणविशेष्यभावादिरिति ॥ स्वपक्षे इति मीमांसकपक्षे । रूपादिष्वित्यवादिशब्दाद्रसादिपरिग्रहः । अपरोक्षानुभवेति साक्षात्कारिज्ञानम् । अनुमेय इति । अनुमानशेयः । योग्यतेति स्वस्वविषयग्रहणोश्चितता । अयमर्थः । त्वत्पचे इन्द्रियाणां अतिसौक्ष्पाद प्रत्यक्षत्वे इन्द्रियार्थयोर्योग्य
Aho ! Shrutgyanam