________________
न्यायतात्पय्यदीपिका ।
ननु प्रत्यक्षेण क्ष्मातलमुपलक्ष्य प्रतियोगिनं संस्मृत्याख्यानपेक्षं
मानसमभावज्ञानमुल्लालसौति । तदुक्तम् ।
२४४
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिताज्ञानं जायते ज्ञानपेक्षया ॥ इति चेत् । न । विकल्पा महत्वात् । तथाहि । प्रत्यक्षेण ज्ञातलादिवस्तु घटादिप्रतियोगिभिः संसृष्टमसंसृष्टं वा गृह्यते । नायः कल्पः । प्रतियोगिसृष्टस्य भूतलादिवस्तुन: प्रत्यक्षेण ग्रहणे तत्र प्रतियोग्य भावग्राहकत्वेनाभावप्रमाणस्य प्रवृत्तिविरोधात् । प्रवृत्ती वा न प्रामाण्यम् । प्रतियोगिनः सत्त्वेऽपि तत्प्रवृत्तेः । द्वितीये त्वभावप्रमाणवैयथ्र्यम् । प्रत्य ने गाँव प्रतियोगिनां घटादीनामभावप्रतिपत्तेः । तथाच प्रयोगः । निर्घटं भूतलमित्यादिज्ञानमिन्द्रियजमिन्द्रियान्वय- व्यतिरेकानुविधायित्वाद्रूपादिज्ञान
वदिति ॥ ६२ ॥
परमतं शङ्कते ।
अन्यत्र तज्ञावभावित्वं पय्र्यवसितमिति चेदिति ॥ अन्यत्रेति भूतलाद्यधिकरणे । तद्भावभावित्वमिति इन्द्रियव्यापारभावभावित्वम् । सम्बद्धं वर्त्तमानं च ग्टह्यते चक्षुरादिना इति न्यायादिन्द्रियसम्बन्धो धरातल एव स्थितो नाभावग्रहर्णे
इत्यर्थः ॥ ६३ ॥
परिहरति ।
न । रूपादिष्विव बाधकाभावादिति ॥
Aho! Shrutgyanam