________________
भागमपरिच्छेदः ।
२४३
२४३
प्रत्यक्षादेरनुत्पत्ति: प्रमाणाभाव उच्यते । मात्मनोऽपरिणामो वा विज्ञानं वान्यवन्तुनि । प्रभावस्य प्रामाण्यस्थल मिदम् । प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्त्वसत्तावबोधार्थ तत्राभावप्रमागतंति ॥ प्रत्यक्षादिक्रमणान्तर्भावे वक्तुं युक्त प्रत्यक्षाभावस्य बहुवक्तव्यत्वा परोत्ये नाभिधानं कृतम् । त्रिविति । प्रत्यक्षानुमाना. गमिषु । आगमादिति व्यामवचनात् ॥ ६० ॥ अनुमान भावान्तर्भाव विभावयति ।
आत्मादिषु रूपाद्यभाषप्रतिपक्तिरनुमानादिति ॥ आत्मादी त्यत्रादिशब्दारमादिग्रहः । रूपादीत्यत्रादिशब्दाद्रसादिग्रहः । अनुमानं यथा । आत्मा रूपादिमुक्तो विभुत्वे सत्यमूर्तद्रव्यत्वात् । व्योमादिवदिति । व्योम रूपरसगन्धशून्यमस्पर्शयत्त्वादिगादिवदिति ॥ ६१ ॥ प्रत्यक्षेऽन्तर्भावमाह।
भूतलादिषु घटाद्यभावप्रतिपत्तिः प्रत्यचादिन्द्रिय व्यापारभावभावित्वादिति
घटशून्यं भूतलमिह भूतले घटो नास्ति वेत्यादिरूपा घटादिवस्त्वभावज्ञप्तिः प्रत्यक्ष प्रमाणात् भवति । अत्र हेतुः । इन्द्रियेत्यादि। इन्द्रिय व्यापारभावे एव भवतीत्येवं शौला इन्द्रियघ्यापारभावभाविनी तद्भाबस्तत्त्वं तस्मरदिन्द्रिय प्रकृत्तिपूर्वकत्वादित्यर्थः ।
Aho! Shrutgyanam