________________
२४३
न्यायतात्पर्य दीपिका।
उपमहरति ।
तस्मादविनाभावबलेनार्थप्रतिपादकत्वादपत्तिरनुमानमिति ॥
स्पष्टम् ॥ ५८ ॥ ___ अथ सहस्रे पातं सम्भवतीति ज्ञाने मम्भवः पृथक प्रमाणं परैः स्त्रीचक्रे तदप्यनुमानेऽन्तर्भावयति । ___ बहुत्वसंख्याविषयत्वे सत्यल्पसंख्याविषयस्य सर्वत्रीपलब्धत्वान्ना. नुमानासम्भवो भिद्यत इति ॥
सम्भवति बहुवे त्वल्पत्वमिति सम्भवः । समुदायेन समुदायिनोऽवगमः सम्भव इति सम्भवलक्षणम् । बहुत्वसंख्याविषयल्वे सहस्रादिसंख्यागोचरत्वे सत्यल्पसंख्याविषयस्य शतादिद्रव्यरूपस्य सर्वत्र संख्यादौ प्राप्तत्वादनुमानात् सम्भवो न पृथग्भवति । समुदायममुदायिनोरविनाभावत्वेनानुमानरूपत्वात् । तथाहि विवादास्पदं सहस्रं स्वसमुदायिशतवत्महत्वात् पूर्वगणितसहस्रवदिति । एवं खायां द्रोण इत्याद्यपि ॥ ५८ ॥ अथाभावमागमादि प्रमाणत्रितये यथासम्भवमन्तर्भावयति ।
अभावस्य तु विष्वपि यथासम्भवनान्तर्भावस्तथाहि कौरवाद्य. भावप्रतिपत्तिरागमादिति ।
प्रत्यक्षादिप्रमाणानुत्पत्तिरभाव इत्यभावलक्षणम् । तदुक्तम् ।
___* The test reads • प्रतिपादकत्वाविशेषा 9-10).
: Sec page 33. Line
Aho! Shrutgyanam