________________
प्राममपरिच्छेदः ।
२४१
पूर्व क्षण कारणानि सकलमहकारिसमेतानि समस्त प्रतिबन्धक शून्यानि वा अनन्तरमेव कार्योत्यादकत्वान्न यदेवं न तदेवं यथा केवल मृन्मणिप्रतिबद्धो वहिर्वेति । तत: केवलव्यतिरेक्यांपत्त्योनामैव भेदो न वस्तुत इति भावः ॥ ५४ ॥ पुनः परमतं शकते।
अन्वयाभावात्र तदनुमानमिति चेदिति ॥ यदेवान्वयव्याप्तिमत्तदेवानुमानम् । केवलव्यतिरेकी त्वन्वया भावादनुमानं न भवति । किन्त्वपत्तिरित्यर्थः ॥ ५५ ॥ परिहरति ।
न। केवलान्वयिनो व्यतिरेकाभावेन प्रमाणान्तरत्वप्रसङ्गा. दिति ॥
यद्यन्वयाभावात् केवलयतिरेको नानुमानमियत । तहि केवलान्वय्यपि नानुमानं किं तु प्रमाणान्तरं स्यात्तल्य न्याय. त्वात् ॥ ५६ ॥ प्रसङ्गान्तरमप्याह ।
अपिच प्रत्यक्षादिभेदानां किञ्चिधात् प्रमाणान्तरवप्रसङ्ग इति ॥
यद्यन्वयव्याप्ताभावात् केवलव्यतिरेको पृथक् प्रमाणमियत तदा निर्विकल्पकस विकल्प कयोग्ययोगिरूपाणां प्रत्यक्षभेदानां कार्यकरणानुभयात्मनामनुमानभेदानां दृष्टादृष्टरूपयोः शब्दभेदयोश्व किञ्चिदै सदृश्यात् पृथक् पृथक् प्रामाण्यमनुषज्येतेति ॥ ५७॥
Aho! Shrutgyanam