________________
२४०
न्यायतात्पर्यदीपिका।
कारण प्रत्यासत्रमेव धृतसामर्थ्यमसमवायिकारणम् । साहाय्यमात्रे व्याप्रियमाणं निमित्तकारणम्। तेषां भावो मुख्यकारणत्वम् । अप्रतिबद्धशक्ति रिति। न प्रतिबद्या मणिमन्त्रादिभिः शक्तिर्यस्ये त्यप्रतिबद्धशतिरन्यादिः । अयमर्थः । कार्य निष्पत्ति: मकलकारणसाकल्यात् दृष्टादृष्टभेदेन कारणानां भूयस्त्वात् । न च कारणसाकल्यं कचिदस्मदादिप्रत्यक्षं किन्तु कार्यनिष्यत्त्युबेयम् । तथाऽप्रतिबद्वशक्तिर्वयादिः स्फोटादिकार्यमर्जति । अप्रतिबडशक्ति त्वमपि च दुर्लक्ष्यम् । प्रतिबन्धकानां मणिमन्त्रादीनामनन्तत्वात् । ततो यत्र मुख्य कारणत्वस्याप्रतिबद्धशक्तेश्च वयादर्जप्ती प्रत्यक्षाप्रवृत्त्या सामान्याकारणाप्यन्वयव्याप्तिग्रहणं नास्ति तत्रान्वयाभावादनुमानानुत्थानेऽपत्तिः पृथक् प्रमाणं भविष्यति । यथा अत्र सन्ति सकलसहकारिकारणानि कार्योत्पत्त्यन्यथानुपपत्तेस्तथा अनास्त्य प्रतिबद्धशक्तिवाटिः स्फोटादिकार्यान्यथानुपपत्तेश्च ततोऽर्थापत्त्यन्तर्भावोऽनुमान न युक्त इति भावः ॥ ५३ ॥
परिहरति ।
न। तत्रापि केवलव्यतिरेक्यनुमानाव्यतिरेकात् । केवलव्यतिरेक्यर्थापत्तिरिति संज्ञाभेदमानमिति ॥
केवलव्यतिरेकी ति । पक्षव्यापकोऽविद्यमानसपक्षो विपक्षायावृत्ती हेतुः केवलव्यतिरेकी। अव्यतिरेके ति अनधिकत्वम् । केवलव्यतिरेक्यनुमानेनैवार्थापत्तिसाध्यमिद्धावपत्तिप्रमाणाधिक्यं न भवतीत्यर्थः । कथं केवल व्यतिरेकीति चेदुच्यते । कार्योत्पत्ति
Aho! Shrutgyanam