________________
न्यायसारः ।
स्यादनित्यो वेति । विप्रतिपत्तेरेके भौतिकानीन्द्रियाण्याहुः अन्येत्वभौतिकानीति । उपलब्धः किं सद्दकमुपलभ्यते उतासदिति । अनुपलब्धेः किं विद्यमानोऽपि पिशाचो नोपलभ्यते उताविद्यमान इति । अनवधारणत्वाविशेषादूहानध्यवसाययोर्न संशयादर्थान्तरभावः । तद्यथा । वाद्यालीप्रदेशे पुरुषेणानेन भवि तव्यमित्यूहः । किंसंज्ञकोऽयं वृक्ष इत्यनध्यवसायः । मिथ्याध्यवसायो विपर्ययः । तद्यथा । हौ चन्द्राविति सुप्तस्य गजादिदर्शनं चेति । स्मरणज्ञानव्यवच्छेदार्थमनुभवग्रहणम् । प्रमातृप्रमेयव्यवच्छेदार्थं फलादज्ञापनार्थञ्च साधनग्रहणम् । सम्यगनुभवः प्रमा | प्रमाश्रयः प्रमाता । प्रमाविषयः प्रमेयमिति ।
तत्रिविधं प्रमाणं प्रत्यक्षमनुमानमागमश्चेति । तत्र सम्यगपरोक्षानुभवसाधनं प्रत्यक्षम् । तद्दिविधम् योगिप्रत्यक्षमयोगिप्रत्यचञ्चेति । तत्रायोगिप्रत्यक्षं प्रकाशदेशकालधम्माद्यनुग्रहादिन्द्रियार्थ सम्बन्ध विशेषेण स्थूलार्थग्राहकम् । तद्यथा । चक्षुः स्पर्शनसंयोगाद् घटादिद्रव्यज्ञानम् । संयुक्तसमवायात्ताभ्यां घटत्वसंख्यापरिमाणादिज्ञानम् । चक्षुषैव रूपज्ञानम्
Aho ! Shrutgyanam