________________
प्रत्यक्षपरिच्छेदः । रसनेनैव रसज्ञानम् । घ्राणेनैव गन्धज्ञानम्। स्पशनेनैव स्पर्शज्ञानम्। श्रोत्रेणैव शब्दज्ञानम् । मनसैव मुखादिज्ञानमिति। एतेषु संख्यादिष्वाश्रितानां सामान्यानां खाश्रयग्राहकैरिन्द्रियैः संयुक्तसमवेतसमवायाद्गहणम्। श्रोत्रसमवायाच्छब्दग्रहणम् । तदाश्रितसामान्य ग्रहणं समवेतसमवायादिति। तदेतत् पञ्चविधसम्बन्धसम्बन्धिविशेषण विशेष्यभावात् दृश्याभावसमवाययोग्रहणम् । तद्यथा । घटशून्यं भूतलम् । इह भूतले घटो नास्तीति । एवं सर्वत्रोदाहरणीयम् । समवायस्य तु क्वचिदेव ग्रहणाम् । यथा रूपसमवायवान् घटः। घटे रूपसमवाय इति ।
योगिप्रत्यक्षन्तु देशकालस्वभावविप्रकृष्टार्थग्राहकम्। तदिविधम् । युक्तावस्थायामयुक्तावस्थायाञ्चति । तत्र युक्तावस्थायामात्मान्त:करणसंयोगादेव धादिसहितादशेषार्थग्राहकम् । वियुक्तावस्थायाञ्चतुष्टयत्रयइयसन्निकर्षाद्गृहणम् । यथासम्भावनं योजनीयम् । अवैवार्षमप्यन्तर्भूतं प्रकृष्टधर्मजत्वाविशेषादिति। तच्च द्विविधं सविकल्पकं निर्विकल्पकं चैति। तत्र संज्ञादिसम्बन्धोल्लेखन ज्ञानोत्पत्तिनिमित्तं सविकल्प
Aho! Shrutgyanam