________________
आगमपरिच्छेदः ।
२३५
अन्तर्भावस्त्वनुमान एवास्य यथाश्रुतोऽपि निराकतो नागमे इति। ___ यथाश्रुत इति यथा पूर्वावर्णितः। अयं भावः । उपमान परार्थानुमानं सादृश्य लिङ्गेन परोक्षार्थानुमापकत्वात् धूमानुमानवदित्यनुमानेन परार्थानुमान उयमानस्य योऽन्तर्भावः स प्रतिषिडो मूलसूत्रे नवागमे। कथमनुमानेऽस्यान्तर्भावनिषेध इति चेत् । उच्यते । ___ नन्वनुमानं लिङ्गलिङ्गिभावेन दृष्टम् । तत उपमाने सादृश्यं चेल्लिङ्गं तर्हि लिङ्गी कः । गोश्चेत्र । तस्य प्राक् परिच्छिनत्वात् । गवयश्चेन्न । तस्य प्रत्यक्षविषयत्वात् । सादृश्यं चेन्न । तस्य प्रागपि लिङ्गत्वेनोक्तत्वात् । अतोऽनुमानलक्षणाभावादुपमानस्यानुमानान्तर्भावो न युक्तः । प्रयोगशात्र । उपमानं नानुमानमाप्तवाक्येनार्थप्रतिपादकत्वात् पुत्रकामो यजेदित्यादि वाक्यवदिति ॥ ४५ ॥
ननु मूलसूत्रे चतुष्वाभिधानादिह त्रित्वाभिधानं विरुडमित्याशङ्का परिहरति ।
चतुष्ट्वाभिधानं सूत्रेषु पञ्चत्वादिनिराकरणार्थं न त्रिस्वनिषेधार्थ प्रमाणसिद्धत्वादन्तर्भावस्येति ।
चतुमी प्रमाणानां भावश्चतुष्वम्। मूलसूत्र प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानौति यन्त्रमाणचतुवमुक्तं तद्यथा प्रमाणानि
__* The word "यथाम्मूतोऽपि" is smitted in the text (See nuge 32,
Line 9
Aho! Shrutgyanam