________________
२३४
न्यायतात्पर्य दीपिका। जाप्यते। तथा प्रसिद्ध क्रादिपदार्थस्य शक्रादिपदार्थ जिज्ञामोस्तज्ज्ञानन देवेश्वरत्वसहस्राक्षत्वादिना निमित्तेन परोक्षेऽपि शकादो मंज्ञासंज्ञिसंबन्धी बोध्यते । न च वाच्यं यस्य निमित्तमध्यप्रसिद्धं तस्य कथं संज्ञासंज्ञिसंबन्धो बोध्यत इति। तस्य सर्वथा विप्रतिपन्नस्योपदेशं प्रति बालमूकवदनधिकारात्। ततश्च मूलसूत्रे प्रागुक्त युक्त्वा परोक्तशब्दाप्रामाण्यानिम्तहणायोपमान स्य पृथक्कथनादत्रागमान्तर्भावेऽपि न मूत्रविरोधः। तथा प्रत्यक्षानुमानविषयत्वे शब्दस्यानुवादकत्वाद्यदप्रामाण्यमुक्तं तन्त्र युक्तम् । तथाभ्युपगमात्। अन्यथा तवापि प्रत्यक्षानुमानयोमिथो विषयपरिच्छेत्तृत्वेनाप्रामाण्यापातात्। शब्दप्रामाण्यस्य प्रागपि समर्थितत्वाञ्च ॥ १३ ॥
ननु यदि मूल सूत्रकरुपमानं पृथक् प्रमाणमिति नेष्टं तर्वाक्षेपपूर्व परोक्षाचक्रे किमितीत्याह।
परीक्षा त्वर्थापत्तिवत्प्रमाणस्य सतः प्रमाणेष्वन्तर्भावज्ञापनार्थमिति ॥
यथा पृथक् प्रमाणत्वेनानिष्टाप्यापत्तिः प्रमाणत्वेन परीक्षानुमानेऽन्तरभावि तथोपमानमपि प्रमाणतया परीक्षागमेन्तर. भावीति भावः ॥ ४४॥
ननु मूलसूत्रे उपमानान्तर्भावो निषिद्धस्तत: सूबविरोधः तदवस्थ एवेति परिहरति ।
Aho! Shrutgyanam