________________
२३२
न्यायतात्पर्यदौपिका।
शब्दः प्रमाणं भवन् कि प्रत्यक्षानुमानविषयस्तदविषयविषयो वा। तत्र नाद्यः कल्प: सुजल्पः । प्रत्यक्षानुमानप्रमितार्थप्रमापकवेन शब्द स्यानुवादकत्वात् । प्रमाणान्तरगृहीतकविषयत्वस्यैवानुवादक लक्षणात् । अनुवादकस्य तु स्मृतरिवाप्रामाण्यभूमित्वात् । प्रयोगश्चात् । शब्दोऽप्रमाणं प्रमाणान्तरप्रमितार्थप्रमापकत्वात् स्मृतिवदिति। द्वितीये तु प्रत्यक्षानुमानाविषयत्वेन वाच्यवाचकभावसंबन्धाग्रहणाच्छब्दस्यावाचकत्वं स्यात् । यतः शब्दार्थयोः संबन्धी वाच्यवाचकभाव: स प्रत्यक्षगम्योऽनुमानगम्यो वा स्यात् । न च तद्विषयं स्वीकृतमिति ॥ ४० ॥
पदेनैवार्थ: प्रतिपाद्यः । तत्र पदं सङ्केत्यतामित्यागका पर: प्राह ।
पदार्थस्याप्रसिद्धत्वान्न पदेन संबन्धग्रहण मितरेतराश्रयत्वादिति ॥ . पदं सुप्तिङन्तं तस्यार्थोऽभिधेयस्तस्यान्यप्रमाणाविषयत्वेनाजातत्वात्यदेनार्थस्य संबन्धग्रहणं न जाघव्यते । अत्र हेतुः । इतरेतराश्रयत्वादन्योन्याश्रयदोषापातादित्यर्थः । तथाहि पदेन पदार्थे प्रसिडे सति संबन्धग्रहणं संबन्धग्रहणे च सिद्दे पदेन पदार्थस्य प्रसिद्धिरित्यन्योन्याश्रय स्य प्रकटदोषत्वात् ॥ ४१ ॥ . ननु पदैन पदार्थसंबन्धग्रहणं मा म्म घटिष्ट वाक्यार्थेन तु पदार्थसंबन्धो ग्रहीष्यत इत्येतदपि निराचष्टे ।
वाक्यार्थस्तु प्रसिद्धानां पदानामन्वयमात्रमिति ॥ उचते स्वोचितोऽर्थोऽनेनेति वाक्यम् । पदानामन्योन्यापेक्षाणां
Aho! Shrutgyanam