SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पागमपरिच्छेदः । २३१ उपमान पृथगभिधानस्येति शेषः ॥ ३७॥ प्रयोजनं व्यनक्ति । *शब्दप्रामाण्यसमर्थनमिति ॥ उपमानपृथक्थनस्य प्रयोजनमिति वाक्यशेषः ॥ ३८॥ परः पृच्छति। कथमिति ॥ कथं शब्दप्रामाण्यसमर्थन मिति शब्दार्थः ॥ ३८ ॥ अथ समर्थनं पराक्षेपपूर्वं भवतीति प्राक् पराक्षेपमुपक्षिपति । केचिदाहुः प्रत्यक्षानुमानविषयत्वे शब्दस्यानुवादकत्वं तदविषयत्वे संबन्धाग्रहणादवाचकत्वमिति ॥ केचिदिति ताथागताः। प्रत्यक्षेत्यादि प्रत्यक्षानुमानयो ? विषयः सोऽम्युपचारात् प्रत्यक्षानुमान ते विषयो यस्यासौ प्रत्यक्षा. नुमानविषयः । यहा प्रत्यक्षानुमानयोविषय एव विषयो यस्ये. त्यष्टमुखादय इति सूत्रेणैक विषयपदलीपो समासः। तद्भाव: प्रत्यक्षानुमानविषयत्वं तस्मिन् । अनुवादकत्वमिति अन्यप्रमाणग्टहीतेक विषयत्वम् । तदविषयत्वे इति प्रत्यक्षानुमानविषयाविषयत्वे। संबन्धेति शब्दस्य विषयेण सह वाच्यवाचकभावसंबन्धस्तद्ग्रहणम् । प्रत्यक्षानुमानाविषयत्वादेव । अवाचकत्वमिति प्रर्थाप्रत्यायकत्वम् । अयमर्थः। प्रमाणेन हि विषयवतैव भाव्यम् । विषयश्च दृश्यादृश्यरूपः प्रत्यक्षानुमानगम्यः । ततः -..---....-- ----- -...--. -- -- -.. ... . ..-.-..- - -. --. __ * 'The Text_rculy "उच्चते शब्दप्रामाण्यसमर्थनं प्रयोजनम्" ( See page 31. Line 15 ); Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy