________________
२३०
न्यायतात्पर्यदीपिका। शक्र इत्यनया प्रक्रियया प्रत्यक्षवदप्रत्यक्षेऽप्यर्थे संज्ञासंज्ञिसंबन्धघटना सुघटैव । न चैवं प्रत्यक्षं संज्ञाकर्मेत्यस्य मुख्य सूत्रस्य विरोधः । अत्र प्रत्यक्षशब्दस्य संज्ञानिवेशयोग्यवस्तुनि दृढ़प्रमाणावगमार्थखात् ॥ ३४॥
अथ प्रत्यक्षानुमानोपमानशब्दा: प्रमाणानौत्यक्षपादप्रणीत. प्रमाणभेदाभिधाटसूत्रविरोधं शन्ते ।
सूत्रविरोध इति चेदिति ॥ इहागमे उपमानान्तर्भावेन प्रमाणत्रित्वाभिधानात् मुख्यसूत्रेषपमानपार्थक्येन प्रमाणचतुष्वाभिधानात् विरोध: सम्पन्न इत्यर्थः ॥ ३५॥ मूत्रविरोधं परिहरति ।
न। प्रमाणनिग्रहस्थानाभ्यां दृष्टान्तहेवाभासादीनामिव प्रयोजनवशेन पृथगभिधानादिति ॥
प्रमाणेत्यादि । यथा प्रमाणनिग्रहस्थानाभ्यां कृत्वा लब्धाना. मपि दृष्टान्तहेत्वाभासादीनां मूलसूत्रे प्रयोजनवशात् पृथगभिधानं कृतं तथागमान्तर्भूतस्याप्युपमानस्य पृथभिधानम् । अयं भावः । प्रमाण प्रमेयसंशयप्रयोजनेत्याद्यक्षपादोतामूलसूत्रे प्रमाणान्तर्गतो. ऽपि दृष्टान्तो निग्रहस्थानान्तर्गता अपि हेवाभासा: शिष्यशे मुषोसमुन्मेष कार्यवशाद्यथा पृथगुक्तास्तथागमान्तर्गतमप्युपमानं मूलसूत्रे पृथगुक्तमिति ॥ ३६ ॥ परोऽमुयुक्त।
तहि प्रयोजनं वाचमिति ॥
Aho! Shrutgyanam