________________
प्रागमपरिच्छेदः ।
२२८
गोशब्दः संज्ञेति वाक्यानुच्चापि सतग्राहकस्यायमाशयो यन्मयायं प्रतिपाद्यः । सर्वस्यापीदृशस्य सानादिमतः पिण्डस्य गौरिति सङ्केतः ग्राहितोऽस्ति पिण्डान्तरे स्वयमेव ज्ञास्यतीति प्रतियाद्य स्याप्ययमाशयो यदह प्रतिपादकेनेदृक्षस्य मात्रादिमत: सर्वस्यापि पिण्डस्य गौरिति सङ्केतं ज्ञापितोस्मोहगन्धोऽपि मया गोशब्देन वाच्य इति ।
इत्युभयोः सामर्थ्यात् जहशक्तिविशेषात् प्रागुक्त केवलयतिरेकिणोऽपि विधा प्रतिपत्तिभवति । तत: प्रमाणान्तराभिधानप्रसङ्गोऽयुक्त इति भावः ॥ ३२ ॥ परोक्षपरिहार स्वपक्षेऽपि प्रेक्षयति ।
समानमेतदत्रापि गोमहशो गवय इति शब्दादुभयोरेवमभिप्रायो गोसदृशस्यार्थस्य गवयशब्दः संज्ञेति सामयादेवं प्रतिपत्तिरिति॥
अत्रापीति यादृग्गीस्तादृग्गवय इति स्थलेऽपि । उभयोरिति प्रतिपादक प्रतिपाद्ययोः। एवमिति यथा त्वन्मते प्रतिपाद्यप्रतिपादकाभिप्रायवशात् प्रमाणं विनापि संज्ञासंनिसबन्धप्रतिपत्तिस्तथास्मन्मतेऽपि । शेषं व्यक्तम् ॥ ३३ ॥
नवाप्तवाक्यादप्रत्यचे गवये कथं संज्ञासंनिसबन्धघटनेत्याशय परिहरति ।
न च प्रत्यक्ष एवार्थे संज्ञासंज्ञिमंबन्ध प्रतिपत्तिरप्रत्यक्षेऽपि शक्रादौ संज्ञासंनिसंबन्धप्रतिपत्तिदर्शनादिति ॥
शकादाविति । य: सुराणामधीशः स्वाराज्यभोक्ता च स
Aho! Shrutgyanam