________________
२२६
न्यायतात्पर्य दीपिका ।
देवकुलं गत्वा तच्चन्यं प्रेच्य व्यावृत्तं कञ्चित्कञ्चिदप्राक्षीत् । अत्रामुकोऽस्ति न वेति । ततस्तस्य निर्विकल्पक प्रत्यक्षग्गृहीताभावस्यापि तद्दर्शनसामर्थ्यात्तत्प्रनाञ्च तत्र नास्त्येवेत्यभावप्रतिपत्तौ सविकल्पका स्मृतिर्जायते । तथा निर्विकल्पक प्रत्यक्षेण गोवग्रहणकाले सादृश्यग्रहणेऽपि गवयदर्शन सहकारिसामध्यात् स्मृतिनिचयात्मिका भविष्यतीत्यनेन सदृशी मदीया गौरिति ज्ञानं स्मरणमेव नतूपमानम् ॥ २६ ॥
लघु नैयायिकमते आप्तवाक्यश्रवणादनु गवये दृष्टे या संज्ञासंज्ञिसंबन्धप्रतिपत्तिः सोपमानम् । पृथक् प्रमाणत्वेन खोचक्राणा साम्यागमात्र भिद्यत इति वक्तुमाह ।
संज्ञासंज्ञिसंबन्धप्रतिपत्तिरप्याप्तवचनकार्येति ॥
अटव्यामटाट्यमानस्य पुंसो वनेचरवचः श्रवणादनन्तरं गोमन्त्रभे पिण्ड़े प्रेचितंऽस्य गवय इति संज्ञायां गवयसंज्ञया वाच्यः पिण्ड इति या संज्ञासंज्ञिसंबन्धघटना साध्याप्तवचोजन्या तन्मूलत्वान्न तूपमानकार्य्यम् । आप्तवाक्यातिदेशात्परोक्षे गवयपिण्डे कथं संज्ञासंज्ञिसंबन्धप्रतिपत्तिरिति चेत् । सादृश्ये सङ्केतकरणात् सादृश्यस्य च गोगवययोरेकत्वात् । अन्यथा व्यक्तीनामानन्त्यासङ्केत करणे सति संज्ञाव्यवहारलोपापत्तेः ॥ २७ ॥
पूर्वोऽर्थे युक्तिमाह ।
तथा प्रश्नोत्तराभिधानादन्यप्रमाणा निर्देशाच्चेति ॥ यथा नागरिकेणाटविको वाचा पृष्ट: कोहग्गवय इति । तथैवाटविकेन म याहग्गोरिति वाचैवोत्तरयाञ्चक्रे ! तत एव च
Aho ! Shrutgyanam