________________
न्यायतात्पर्य्यदीपिका |
यथा चक्षुरेकप्रदीपसंस्कृतं समानेन्द्रियग्राह्यसमानदेश समानधर्मापत्रान् घटादीन् युगपदृह्णाति तथानेनानुमानेन परप्रयुक्तं व्यञ्जकनानात्वं खण्डयित्वा युगपत्सर्वशब्दग्रहणं समर्थितम् ॥ १६ ॥ यावन्तः शब्दास्तावन्तोऽभिव्यञ्जका इति पराभिप्रेतश्रोत्रविषयभूतशब्दव्यज्ञ्जकनानात्वं निराचष्टे I
शब्दा वा प्रतिनियत संस्कारक संस्काया न भवन्ति । समानेन्द्रियग्राह्यसमानदेश समानधर्मापन्नत्वे सति युगपदिन्द्रियसंबद्धवाटादिवदिति ॥
२२०
अवानुमाने शब्दाः प्रतिनियत संस्कारक संस्काया न भवन्तीति पक्षः । समानेन्द्रियेत्यादि संबद्धत्वादिति पय्र्यन्तो हेतुः । घटादिवदिति दृष्टान्तः । प्रतिनियतेत्यादि । प्रतिनियता एकेक शब्दं प्रति निश्चिताः । संस्कारका इत्यभिव्यञ्जकाः । समानेन्द्रियादिपदानां व्यवच्छेद्यन्त्वेवम् । युगपदिन्द्रियसंबत्वादित्युक्त हेत एकद्रव्यसमवेतत्वादु युगपञ्चक्षुरादिमंबद्दत्वेऽपि प्रदीपादिप्रतिनियत संस्कारक संस्काय्यै रूपादिभिर्व्यभिचारः स्यात्तनिवृत्त्यर्थं समानेन्द्रियग्राह्मेति पदम् । समानेन्द्रियग्राह्या अपि भिन्नदेशस्था: प्रतिनियत संस्कारक संस्काय्र्या भवन्तौति तत्परिहाराय समानदेशति पदम् । समानेन्द्रियग्राहो समानदेशस्येऽपि द्रवी भूतमिश्रितष्टततेले प्रतिनियतसंस्कारक संस्कायें एवेति तावच्छेदाय समानधर्मेति पदम् । कोऽर्थः । यथा समानेन्द्रियग्राह्य
* The word "समानदेश" is omitted in the text { See page 30.
Lane 5
Aho! Shrutgyanam