________________
आगमपरिच्छदः ।
व्यञ्जका इत्यस्माकं सिद्धान्तस्ततो यस्यैव शब्द स्याभिव्यञ्जकस्तस्यैवाभिव्यक्तिर्न मर्वशब्दानां तेन नातिप्रसङ्ग इति ॥ १५ ॥ पूर्वोत युक्त्या पराभिप्रेतं व्यञ्जकनानात्वं विषयिणि निर्लोठयति ।
थोत्रं तावत्समानेन्द्रियग्राह्यममानदेशसमानधर्मापन्नानामर्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कायं न भवतीन्द्रियत्वाचक्षुर्वदिति ॥
अभिव्यञ्जकनानात्वखण्डनायेदमनुमानम् । तत्र श्रोत्रं तावदित्यादिः संस्कायं न भवतीति पर्यन्त: पक्षः। इन्द्रियत्वादिति हेतुः । चक्षुर्वदिति दृष्टान्तः। प्रतिनियतेत्यादि । प्रतिनियता एकैकव्यङ्ग्यं प्रति निश्चिताः संस्कारका वायवस्तः । संस्कार्य शब्दग्रहणायाभिमुखीकार्यमिति । समानेन्द्रियग्राह्यादिविशेषण त्रयमर्थानाम् । तेषां च व्यवच्छेदामेवम् । श्रोत्रमर्थानां ग्रहणाय प्रतिनियतसंस्कार कसंस्कायं न भवतीन्द्रियवादित्य ते चतुरादि तत्तमहकारिसहकृतरूपरसाटिग्रहणप्रतिष्णुचित्तेन व्यभिचारस्तन्निवृत्त्यर्थं समानेन्द्रिय ग्राह्येति पदम् । भिन्न देशस्थानुरूपादिग्रह णाय प्रतिनियतदीपादिसंस्कारकसंस्कृतेन चक्षुषानैकान्तापनोदाय समानदेशति पदम् । इदञ्च युगपदिन्ट्रियसंबन्ध मियर्थ द्रवीभूतमिश्रितकृततैलयोः स्वरूपन्नानाय। प्रतिनियतसंस्कारकसंस्कृतन चक्षुषातियाप्तिविच्छित्तये समानधर्मेतिपदम्। अयं भावः । ये समानेन्द्रियग्राह्याः समानदेशाः समानधर्मापनाच शब्दास्तेषां ग्रहणाय प्रतिशब्द मे कैक संस्कारकसंस्काय्यं श्रोत्रं न भवति किंत्वे कसंस्कारकसंस्कृतमेव तान् तथाविधान् शब्दान् युगपड हाति ।
Aho! Shrutgyanam