________________
२१८
न्यायतात्पर्य दीपिका।
परिहरति ।
न तदनिर्देशादिति ॥ तस्य शब्दाभिव्यञ्जकवायोरनिर्देशो वैशिष्ट्येनाकथनं तम्मा. दभिव्यञकाभावात् कृता तदनुपलब्धिर्भवतीत्यर्थः ॥ १२ ॥ पुनः परं शकते।
वायुसंयोगविभागाविति चेदिति ॥ वक्तः कोष्ठयस्य वायोस्ताल्वोष्ठ पुटादिसम्पर्कः संयोगः । तद्दिश्लेषो विभागस्तौ शब्दोपलब्धानुपलब्धी प्रति हेतूभवतः । कोऽर्थः । यदा वक्त: कोष्ठयो वायुम्ताल्वोष्ठपुटादिष्वभिहन्यते तदा शब्दा अभिव्यज्यन्ते तदभावे नाभिव्यज्यन्त इति ॥ १३ ॥ पुन: प्रसङ्गापादनेन परिहरति ।
न । सर्वशब्दानां युगपद्हणप्रसङ्गादिति ॥ यदि वायुसंयोग एवाभिव्यञ्जकस्तदा युगपत्सर्वशब्दोपलब्धिः प्रसज्येत । व्यञ्जकस्य सर्वशब्दान् प्रति तुल्यत्वात् । यथाऽभिव्यञ्जक प्रदीपसगावे चक्षुरिन्द्रिय ग्राह्याणां घटादीनां युगपदुपन्तम्भस्तथा शब्दाभित्र्यचकवायुसद्भावे श्रोत्रग्रायाणां सर्वशब्दानां युगपटुप. लम्भः स्थादित्यर्थः ॥ १४ ॥ परः प्रश्यति ।
कथमिति ॥ अयमभिसन्धिः परप्रश्नस्य । न हि मया सर्वशब्दामामिक एवाभिव्यनकोऽभ्युपगम्यते । किं तु यावहा शब्दास्तावहाभि
Aho! Shrutgyanam