________________
आगमपरिच्छेदः ।
वेदसंप्रदायो व्यवच्छिद्यते संग्रदायवाद्याकरणादिसंप्रदायवदित्यादीनि ॥ ८ ॥
प्रसङ्गान्तरमाह । — सर्वदोपलब्धानुपलब्धिप्रसङ्गश्च विपर्यये नियामकाभावादिति ॥
यदि वेदवाक्यानां नित्यत्वं भवेत्तहि नित्यवाह्यापकत्वे सति सर्वदोपलम्भोऽनुपलम्भो वा प्रमज्येतान्यानपेक्षणात् । अयं भावः । किं शब्दानामिन्द्रियग्रहणयोग्यतास्ति न वा । आद्ये कल्ये सर्वशब्दानां नित्यत्वाद्यापकत्वेन सार्वदिक इन्द्रिय सम्बन्धे सति सर्वदा सर्वशब्दोपलब्धिः केन वार्येत । द्वितीयस्मिन् कल्ये त्वनुपलब्धिः सार्वदिक्यापद्येत ग्रहणायोग्यत्वात् । ततोऽपेक्षणीयाभावाद्युक्ते एव सर्वशब्दानां सर्वदोयलब्धानुपलब्धी। तदुक्तम् ।
नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्व सम्भवः ॥ विपर्यये कदाचिदुपलब्धावनुपलब्धी नियामक स्य व्यवस्थापक स्थाभावात् कदाचिदुपलभ्यते कदाचिनेत्यत्र नियामकं किञ्चिबास्तीत्यर्थः ॥ १० ॥
परमाशङ्कतं ।
अभिव्यञ्जकाभावात् तदनुपलब्धिरिति चेदिति ॥ अभिव्यञ्जकः शब्दप्रकाशको वायुस्तदभावाच्छन्दानुपलब्धिन त्खनित्यभावाकृतेति शेषः ॥ ११ ॥
Aho! Shrutgyanam