________________
२१६
न्यायतात्पर्यदीपिका। स्यानित्यत्वे सर्वदा सर्वत्र सर्वशब्दार्थप्रतीतिः स्यादपेक्षणीयाभावात्। अनित्यत्वे तु संबन्धस्याप्यनित्यत्वं आधारनाशे सत्याधेयनाशात् । नापि वात्मके वेदे च भेदाप्रतिभामात् य एवं वेदे ककारः स एव लोके प्रतिभातीति भेदाप्रतिभासे प्रत्यभिज्ञाया एवालं. कर्मीणत्वात् । नापि वाक्यं तस्य वर्मव्यूहात्मकत्वात् वर्मानां चोक्तीयुक्तरपौरुषेयत्वाघटनात्। किञ्च ।
ताल्वादिजन्मा ननु वर्मवर्गो वात्मको वेद इति स्फुटच्च । पुंसन ताल्वादिरत: कथं स्यादपौरुषेयोऽयमिति प्रतीतिः ॥
यच
वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा ॥ अतीतानागतो कालो वेदकारविवर्जिती।
कालत्वात्तद्यथा कालो वर्तमानः समीक्ष्यते ॥ इत्याद्यं नित्यत्वसाधनम् । तद्यस्मिंस्तस्मिंश्च वाक्ये प्रयोग शक्यमित्युपेक्षणीयमेव ॥ ८॥
ननु यदि नित्यत्वे प्रमाणं नास्ति तमु नित्यत्वे किं प्रमाणमिति परं शशित्वाह।
अनित्यत्वे पुनर्वाक्यत्वाद्यनकमनुमानमिति ॥ अनेकमनुमानमित्यत्र जात्यैकवचनं वाक्यत्वाद्यनुमानानि यथा वेदवाक्यान्यनित्यानि वाक्यत्वाल्लौकिकवाक्यवत् । पौरुषे. याणि वेदवाक्यानि विचित्ररचनात्वात् कालिदासादिवाक्य वत् ।
Aho! Shrutgyanam