________________
आगमपरिच्छेदः ।
सन्दिग्धासिडत्वेनास्य हेत्वाभासत्वात् । तथाहि यचादिमतामपि प्रासादादीनां संप्रदायो व्यवच्छिद्यते तदानादीनां वेदानामव्यवच्छेदौ संप्रदायोऽद्यापि विद्यत इत्यस्य दुःश्रवानत्वाद्विशेषणं सन्दिग्धासिद्धम् । विशेष्यमप्येकतरासिद्धं प्रतिवादिनी वेदकर्त्तुः स्मरणात् । यथा ततो यो हि वै वेदांश्च प्रहिणोति इति । प्रजापतिः सोमं राजानमन्वसृजन्त्ततस्त्रयो वेदा अन्वसृजतेति । बृद्धपारम्पर्येत्
संप्रदायाविच्छेदश्व
यथावत्पाठस्तादृशश्चाकाशे
नास्तीति साधनवैकल्यं दृष्टान्तस्य ।
किञ्च वेदकर्षस्मरणं प्रत्यक्षेणानुमानेन वा । यदि प्रत्यक्षेण तर्हि कुमारसम्भवादीनामपि कर्त्तुः प्रत्यक्षास्मरणन्नित्यत्वापत्तिः । नाप्यनुमानेन तस्य वेदकर्चनुभवसाधकत्वात् । तद्यथा यद्येनासम्भवद्विशेषं तत्तेन समानहेतुकं यथा सम्भवहिशेषो घटो घटान्तरेण । असम्भवद्विशेषाणि नित्यवाक्यान्यनित्यवाक्यैरिति । न चायं हेतुरसिद्धस्तद्विशेषस्य कापि केनाप्यप्रतीतत्वात् । दुर्भणत्वादिस्तद्विशेषोऽस्तीति चेत्र । तस्य दुर्वाक्येष्वपि भावात् । शान्तिकहिंस्रादिकर्माविसंवादः सोऽस्तीति चेत् न । तस्यापि क्वापि व्यभिचारेणानैकान्तिकत्वात् ।
।
२१५
अन्यच अपौरुषेयत्वेन नित्यत्वं साध्यते । स चासौ अपौरुषेय: किं सम्बन्ध उत वर्षा उत वाक्यम् । तत्र तादात्मातदुत्पत्तिसंयोगसमवायसंबन्धाः शब्दार्थयोरसम्भवादेव निरस्ताः । वाच्यवाचकभावस्तु चेत् साङ्केतिकस्तदा सङ्केतस्य पुरुषजन्यत्वादपौरुषेयत्वं कथं स्यात् । अथ नित्यः सोऽपि संबन्धिनोः शब्दार्थयोर्नित्यत्वेऽनित्यत्वे वा
Aho ! Shrutgyanam