________________
२१४
न्यायतात्पर्यदीपिका। मेकदेशसंवादेऽपि नैरात्माक्षणिकत्वादिकमप्रामाण्य कारणमस्त्यत्र तु प्रमाणोपपनस मस्तवम्तुदेशकत्वेनाप्रामाण्ये न किञ्चित्कारणमस्तीति सर्वाणि वेदवाक्यानि प्रमाणत्वेन स्वीकार्याणि । तथाच प्रयोगः। वेदवाक्यानि प्रमाणत्वेन स्वीकार्याणि अप्रामाण्य - कारणरहितत्वात् पुत्र प्रत्युक्तपित्रादिवाक्यवहातिरेके वञ्चकवाक्यवहा । तदेवं कचित्प्रवृत्तिसामर्थ्यात् क्वचिदाप्तोतत्वात् कारणं त प्रामाण्यं वदता प्रकरणकारेण स्वमते परतः प्रामाण्यं समर्थितं स्वतो निरामि ॥ ७ ॥
ननु पुरुषाणां रागादिदोषकलुषितान्तःकरणत्वेन पौरुषेयत्वाद्देदवाक्यानां प्रामाण्यं न युक्तं किन्तु नित्यत्वात् युक्त मिति जल्पकं परं निराकरोति । ___न नित्यत्वेन वाक्यानां हि नित्यत्वे प्रमाणाभावादिति ॥
न हि वेदः प्रमाणं नित्यत्वादिति वक्तुं शक्यम् । वाक्यानां नित्यत्वे प्रमाणाभावात् । प्रमाणं विना च साध्यसिद्धेरयोगात् । तथाहि तनित्यत्वं प्रत्यक्षेण प्रतीयते अनुमानम वा। न तात्रप्रत्यक्षेण । तस्य विद्यमानेन्द्रिय कवम्तवृत्तित्वेनानादिकालाकलितवस्त्वनवगमात् । न च योगिप्रत्यक्षेणेति वाच्यं तदनभ्युपगमादन्यथा वेदवादिना निर्विवादं सर्वविहादाभ्युपगमः स्यात् । नाप्यनुमानेन' तदविनामावि लिङ्गाभावात् । कर्चस्मरणादिलिङ्गस्यानैकान्तिक - त्वात् ।
अथ नित्या वेदाः संप्रदायाविच्छेदे सत्यस्मयं माणकर्तकत्वादाकाशवदित्यनुमानं नित्यत्वेऽस्तौति चेन्न । विशेषणस्थ
Aho! Shrutgyanam