________________
२१३
मनुमाय तत्प्रणेतुरतीन्द्रियार्थदर्शित्वेन परमातत्वमवधार्य तमणीतानां सर्ववाक्यानामप्रामाण्ये कारणाभावात् प्रामाण्यमनुमीयत
इति ॥
आगमपरिच्छेदः ।
अदृष्टार्थवाक्यानां प्रायेण प्रवृत्तिसामथ्र्यात् प्रामाख्यं दुर्ज्ञानमिति पुत्रकामो यजेदित्यादिवाक्यानां प्रवृत्तिसामर्थ्यात् प्राक् प्रामाण्यमनुमेयम् । यथा विवादास्पदानि दृष्टार्थवाक्यानि प्रमाणानि । कर्चाद्यवैगुण्ये सति प्रेक्षावत्प्रवत्तेकत्वात् प्रत्यक्षवत् । दृष्टिपूर्त्तावपि कादाचित्कफलवैफल्येन प्रकृतितोर्व्यभिचारनिवृत्त्यर्थं कर्त्ताद्यवैगुण्ये सतीति पदम् । वैगुण्याभावे शान्तिकपौष्टिकादिकम्मैस्वनेकशः फलोपलम्भात् । ततस्तत्प्रीतुदृष्टार्थ वाक्यपणे तुरतीन्द्रिया अचातिक्रान्ता ये इष्टिनिष्पत्त्यनन्तरभविष्णुपुत्रजन्मशान्तिकपौष्टिकादयोऽर्थास्तद्दर्शित्वेन हेतुना परमाप्तत्वमतिसाहाद्यवञ्चकत्वं सर्वज्ञत्वं वा ज्ञेयम् । तथाहि पुत्रकामो यजेदित्यादि वाक्यप्रणेता परमाप्तोऽतीन्द्रियार्थदर्शित्वाहातिरेकेऽस्मदादिवत् । वाक्यानां दृष्टादृष्टार्थानामैककर्त्तृकत्वेन प्रामाण्यमनुमानविषयीक्रियते । यथा दृष्टादृष्टार्थानि सर्व्ववाक्यानि प्रमाणान्यासोक्तत्वात् पित्रादिवाक्यवत् । न चातोक्तत्वमसिद्धम् । विवादास्पदानि वाक्यान्यातप्रणीतानि समर्थप्रवृत्तिजनकत्वे सति वाक्यत्वात् पित्रादिबाक्यवत् । प्रामाण्ये हेतुः अप्रामाण्येत्यादि । बौद्धादिराचान्ताना
-*
ततस्तत्प्रणीतानामाप्तप्रणीतानां सर्व
The word is omitted in the text (See page 29. Line 8.
Aho ! Shrutgyanam