________________
२१२
न्यायतात्पर्य्यदीपिका।
तथाच प्रयोगः । शब्दः प्रमाणं स्ववाच्यार्थप्रापणसमर्थत्वात् । प्रत्यक्षवत् । तथा पुत्रकामो यजेदित्यादि दृष्टार्यवाक्यानि प्रमाणानि । काद्यवैगुण्वे सति समर्थप्रवृत्तिजनकत्वात् प्रत्यक्षवदिति ॥ ४॥ अदृष्टार्थानां प्रामाण्यमाचष्टे ।
अदृष्टार्थानां पुनराप्तोक्तत्वेनति ॥ अष्टार्थानि स्वर्गकामो यतेत्यादीनि । पुनः शब्दो दृष्टार्थप्रामाण्यव्यतिरेके । आप्तोक्तत्वेनेति यो यत्रावञ्चकः स तत्राप्तः । यहा प्राप्ती रागद्देषक्षयः सा यस्यास्ति। अभ्रादित्वात् अप्रत्यये स आप्तस्तदुक्तत्वेन प्रामाण्यं गम्यत इति शेषः । अयं भावः । अदृष्टार्थवाक्यानां साक्षादर्थदर्शनाभावादाप्तोतत्वेन प्रामाण्यं गम्यते । नान्यथा । न चाप्तोऽवृतं वक्ति । तद्धेतुरागादिदोषाभावादाप्तत्व हानेश्च | तदुक्तम् ।
आगमो ह्याप्तवचनमाप्तिं दोषक्षयं विदुः ।
क्षीणदोषोऽनृतं वाक्यं न ब्रूया त्वसम्भवात् ॥ ५ ॥ परं शत।
कमिति ॥ अत्र कथसिति परप्रश्नः स चैवं प्रश्नयति । ननु यागादौं निष्ठितेऽपि तदात्वेन स्वर्गादिफलानुपलम्भे आप्तोक्तस्य सुतरां दुरवधारणत्वाददृष्टार्थवाक्यानां कथं प्रामाण्यं ज्ञेयमिति ॥ ६ ॥ परिहरति । पुत्रकामी यतत्यादि वाक्यानां प्रवृत्तिसामयात् प्रामाण्य
Aho! Shrutgyanam