________________
आगमपरिच्छेदः।
तादात्मातदुत्पत्त्यादिसम्बन्धासंबद्धतया अर्थानभिधायकत्वेन सर्वशब्दाप्रामाण्यवादिन शाक्यमाशय दृष्टानां प्राक् प्रामाण्यमाह।
तत्र दृष्टार्थानां वाक्यानां प्रायेण प्रवृत्तिसामर्थ्यात्प्रामाण्य गम्यत इति । ___ तत्रेति दृष्टार्थवाक्यनिरिण। दृष्टार्थानि वाक्यानि पुत्र कामो यजेदित्यादीनि । प्रायेणेति कर्बाद्यवैगुण्ये सतीति ज्ञापनार्थम् । सदगुण्येन मतोऽपि फलस्य नाशात् । प्रवत्तिरिष्टानिष्टादानहानरूप: शारीरो व्यापारः। सामर्थ्य प्रेमितयथोक्तवस्त्वाप्तिः । अयमर्थः । पुत्रकामो यजेत् कारोरों निर्वदृष्टिकाम इत्यादि । दृष्टार्थवाक्यानां पुत्त्रेष्टौ वर्षे वर्षेऽशौचनिर्वृत्तायां पुत्रदृष्टफल. दर्शनात् प्रामाण्यमवगम्यते । यद्येतानि वाक्यानि सत्यानि न घटेरंस्तदा पुष्कलद्रव्यव्ययसाध्ये लेशावहे तदुक्तं कम्मणि न प्रवीणाः प्रवर्त्तरन्न च प्रेप्सितफलानास्तिघ्नुवोरंस्ततो यथा प्रत्यक्षादिक स्वप्रत्यायितमय प्रापयत्प्रमाणत्वेन स्वीचक्रे तथा शब्दोऽपि स्वोतमर्थ प्रापयन् प्रमाणत्वेन स्वीकार्यः । स्वार्थप्रापकत्वेन इयोस्तुल्यत्वात् । अन्यथा शब्दानामर्थसम्बन्धाभावात् व्यर्थवाकत्वेन सूणौकत्वापातात्। अर्थस्थमाचक्षीथा: प्रत्यक्षादि प्रमाणमयसम्बद्धत्वात् । शब्दो न तदभावात् । तन्न । शब्दोऽपि प्रमाणमर्थमम्बद्धत्वादेव । ननु शब्दस्यार्थेन मह कः सम्बन्ध इति चेत् प्रत्यक्षस्यापि स क इति वाच्यम् । ग्राह्यग्राहकभाव इति चेत् । अत्रापि वाच्यवाचकभावी भविष्यति । ततः शब्दः प्रमाण त्वेन स्वीकार्य एव ।
Aho! Shrutgyanam