________________
न्यायतात्पर्य्यदीपिका।
आगमं लक्षयति।
समयबलेन सम्यक् परोक्षानुभवसाधनमागम इति । अत्रागम इति लक्ष्यं शेषं तु लक्षणम् । आगम्यन्ते मर्यादयावबुध्यन्ते पदार्था अनेनेत्यागमः । किमागम इत्याह । सम्यगित्यादि। सम्यगिल्यादिपदानां समासो व्यवच्छेदश्च प्राग्वत् । केनेत्याह। समयबलेनेति । समयः पुरुषकतः सङ्केतो न पुनरविनाभाववत् स्वाभाविकः । स्वाभाविकत्वे ह्यविनाभाविधूमादिलिङ्गवच्छब्दा अपि नियतमेवार्थ प्रत्याययेरन्न तु पुरुष सङ्केतवशादनियतम् । प्रत्याययन्ते च देशनैयत्येन सबैतिताः शब्दाः सर्वानप्यास्ततोऽविनाभावादन्य एव समयस्तस्य बलं ग्रहणस्मरणलक्षणं तेन। अत्र समयबलेनेति पदमागमस्यानुमानत्व. ब्युदासार्थमनुमानस्य व्याप्तिमूलत्वात् । न च वाच्यं व्याप्तिरव समयो व्याप्तेरनुमेयाविनाभावितया समयस्य पुरुषेच्छाधीनतया च मियः पार्थक्यात् । ततः समयजनितसाहाय्यात् संशयादिरहितपरोक्षानुभवस्य यत् साधनं शब्दरूपमशब्दरूपं चेष्टालिप्यक्षरादि वा तत्सर्वमागमप्रमाणं भवति ॥ २ ॥ तस्य भेदमाह।
म द्विविधो दृष्टादृष्टार्थभेदादिति ॥ अत्रार्थशब्देन प्रयोजनं ज्ञेयम् । तत्र दृष्टार्थों यथा नद्यास्तर सन्ति परिपाककमाण्याम्राणीत्यादि। तत्र गतस्य दर्शनात् । अदृष्टार्थो यथा स्वर्गकामी यजेतत्यादि । इह भवे ह्यामुभिकसगफलादर्शनादिति ॥ ३ ॥
Aho! Shrutgyanam