________________
आगमपरिच्छेदः ।
हैतीयिकपरिजेदे सभेदमनुमानं प्रपञ्चा संप्रत्यागमलक्षणं सूचयति ।
अवसितमनुमानमागमस्येदानी लक्षणमुच्यत इति ॥ अनुमानं नाम प्रमाणमवसितं समाप्तमिदानीमनुमानसमात्यनन्तरमागमलक्षणं कथ्यते ।
ये काणादाद्याः शब्दोऽनुमानं व्याप्तिब लेनाथं प्रत्यायकत्वात् धूमानुमानवदित्यनुमाननानुमाने शब्दमन्तर्भावयन्ति तन्मतयुदामायावसित मिति । कूटाकूटकार्षापणपरीक्षण प्रवणप्रत्यक्षा प्रस्तुत हेतोय भिचारात्। तत्प्रत्यक्षस्यापोदृक्षस्वरूप: कार्षापण: सर्वोऽपि सत्यस्तदन्यस्त्वसत्य इति त्रैकाल्याकलितव्याप्तमा बद्दमूल. त्वात् । अन्यथा सत्यासत्यत्वप्रतीत्यनुपपत्तेः। तथा चात्र सावकाशं प्रत्यनुमानमेतत् । शब्दो नानुमानं विभिन्न कारण प्रभवत्वात् प्रत्यक्षवत् । ततो व्याप्तिमूलात् सामान्यार्थनिष्ठावानुमानाव्याप्ताभावेऽपि परीक्षार्थप्रमापकत्वाद्यक्तिमानार्थगोचरत्वाच्च शाब्दप्रमाणं पृथगेव । तदुक्तं
परोक्षप्रमितिं कुर्वद्याप्तादिविरहेऽप्यतः । पदं पृथक् प्रमाणं स्यात् व्यक्तिमात्रार्थगोचरम् ॥ १ ॥
'
ता
Aho! Shrutgyanam