________________
२०८
न्यायतात्पर्य्यदीपिका।
नन्वन्यैरपशब्दादीनामपि निग्रहस्थानत्वमुक्त तत् किं नोचत इत्याह।
नियमकथायां त्वपशब्दादीनामपि इति ॥ नियमकथा नाम मंस्कृतैरेव शब्दैः श्लोकबन्धन वा पञ्चवर्गत्यागेन वा वक्तव्यमित्येवंरूपा । तस्यामपशब्दानामादिशब्दाद्देशादीनां च निग्रह स्थानत्वं ज्ञेयम् । एतनानियतकथायां पक्षत्यागादेव निग्रहो नान्यथा । इति शब्दो निग्रहस्थानपरिसमास्यर्थः ॥ २५॥
इति श्रीकृष्णर्षिगच्छमगडनश्रीमन्महेन्द्रसूरिशिष्य श्रीजयसिंह सूरिविरचितायां न्यायतात्पर्य
दीपिकाभिधानायां न्यायसारटोकायामनुमानपरिच्छेदो
हितीयः समाप्तः ॥
Aho! Shrutgyanam