________________
अनुमानपरिच्छेदः ।
प्रतिज्ञातार्थस्य यो विपर्य्ययः स प्रतिज्ञाहानिरेव अपसिद्दान्तो न भवति । श्रयं भावः । स्वसाध्ये प्रतिदृष्टान्तधर्माभ्यनुज्ञा हि प्रतिज्ञाहानिः । अपसिद्धान्तस्तु सिद्धान्तमभ्युपगत्य स्वेच्छया कथाकरणं ततो न खल्वत्र प्रतिज्ञातार्थविपय्यैयः । किन्तु स्वसिद्धान्त विरुद्धाभिधानम् । तस्मात् प्रतिज्ञाहा नेरपसिद्धान्तः पृथगेव ॥ २५३ ॥
हेत्वाभासानां निग्रहस्थानत्वमाह ।
हेत्वाभासाश्च यथोक्ता इति ॥
यथोक्ताः पूर्वोक्तलचणैर्लक्षिताः । असिडविरुद्धानैकान्तिका - नध्यवसितकालात्ययापदिष्टप्रकरणसमाः षट् हेत्वाभासा निग्रहस्थानानि भवन्ति । चकारो दृष्टान्ताभासानन्वयविपरोतान्वयादिसमुच्चये । तेषामपि निग्रहस्थाननिमित्तत्वात् ॥ २५४ ॥ एतदेव स्वयमाह ।
हेत्वाभासलक्षणेनैव यथोक्तेन हेत्वाभाखा नियहस्थानानी
त्यर्थः ॥
२०७
स्पष्टम् ॥ २५५ ॥
सूत्रे द्वाविंशतिर्निग्रहस्थानानीति यदुक्तं तन्त्र नियमार्थं किं तूपलक्षणार्थमित्याह ।
एतेन दुर्वचनकपोलताडनवादित्रादीनां साधनानुपयोगि त्वेन निग्रहस्थानत्वं वेदितव्यमिति ॥
एतेन कतिपयनिग्रहस्थानलक्षणोदाहरण निरूपणेन आदिशब्दात् कुचेष्टादिग्रहः । शेषं स्पष्टम् ॥ २५६ ॥
Aho ! Shrutgyanam