________________
२०६
न्यायतात्पर्य्यदीपिका।
कार्यत्व सिद्धौ कृतायां परोऽभिधत्ते । बुद्धादौ सावयवत्वाभावेऽपि कार्यत्वोएलभाद् व्याप्ताभावनाप्रयोजकोऽयं हेत्वाभास इति । तस्य मिथ्याभियोगलक्षणमनिग्रहे निग्रहाभियोगरूपं निग्रहस्थानं भवति। सपक्षकदेशव्यापिनोऽपि धमादेर्गमकत्वदर्शनात् ॥२५॥ अपमिद्धान्तं लक्षति ।
सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्त इति ॥ स्वस्वदर्शनाभिप्रायेणाप्तप्रणीत भागम: सिद्धान्तः । यस्तं सिद्धान्तमभ्युपगत्य कथायां प्रवृत्तः सिसाधयिषितार्थसमर्थनरभमेन दूषणोद्धरण रभसेन वा स्वसिद्धान्तविरुद्धमभिधत्ते । सोऽपसिद्धान्तेन निग्राह्यते ॥ २५१ ॥ सूत्रं विवरीषुराह।
यथा मीमांसामभ्युपगम्य कश्चिदग्निहोत्रं स्वर्गसाधनमित्याह । कथं पुनरग्निहोत्रक्रिया ध्वम्ता सती वर्गसाधिका भवतीत्यनुयुक्तः प्राह । तया क्रिययाऽराधितः परमेश्वर: फलं ददाति राजादिअत् । तस्येश्वरानभ्युपगमादपसिद्धान्तो निग्रहस्थानमिति ॥
मीमांसामते ईश्वरो देवता नास्ति । अग्निहोत्रं स्वर्गमाधनमिति । ततो यदा मीमांसावादी क्रतुक्रियातुष्टः शम्भुः फल ददातीति वक्ति तदा तस्य मीमांसानभिमतेखरस्वीकारादप-' सिद्धान्तो निग्रहस्थाने भवति ॥ २५२ ॥
केषाञ्चिन्मते प्रतिज्ञार्थविपर्यासोऽपसिद्धान्त इत्यपसिद्धान्त लक्षणं लक्षितमस्ति तन्मतं कुट्टयितुमाह।
प्रतिज्ञाताविपर्ययस्तु प्रतिज्ञाहानि पसिद्धान्त इति ॥
Aho! Shrutgyanam