________________
आगमपरिच्छेदः ।
२२१
समानदेशसमानधर्मापत्रा घटादयश्चक्षुः प्रति प्रतिनियतसंस्कारकसंस्कार्य्या न भवन्ति किन्वेकप्रदीपसंस्कृताः तहोचरीभवन्ति । तथा समानेन्द्रियग्राह्यसमानदेशसमानधर्मापन्नाः शब्दा अपि श्रोत्रं प्रति प्रतिनियतसंस्कारकसंस्काया न भवन्ति किन्वेकाभि. व्यञ्जकवाय्वभिव्यक्तास्तेन ते सर्वे ग्राहियन्त इति। तदेवमनुमानहयेन वियि विषययोव्यंजक नानात्वनिरासे पूर्वनात्र च समानधर्मेति पदं कैचित्र मन्यन्ते। सर्वथा साधाभावात् । कथञ्चित्साधयं तु युज्यते ॥ १७ ॥
परमतमाशङ्कते।
उत्पत्तिपक्षेऽप्ययं ममानो दोष इति चेदिति ॥
अभिव्यक्तिपक्षे एकव्यञ्जकसद्भावे युगपत्सर्वशब्दग्रहण मिति. यो दोषः प्रोक्तः स भवदभिमत उत्पत्तिपक्षऽपि समानः। एकशब्दोत्पादकवायुसम्पर्के युगपत्सर्वशब्दोत्पादन सर्वशब्दग्रहणप्रसङ्गात् । अथान्योत्यादनेऽलंकर्मीणोऽपि यदर्थ प्रेरितो वायु. स्तमेव करोति नान्यमिति वक्ति तो तदभिव्यक्तिपक्षेऽपि समानम् । तदुक्तम् ।
अन्यार्थ प्रेरितो वायुयधाऽन्यं न करोति सः । तथाऽन्यवर्मसंस्कारशक्तोऽन्यं न करिष्यति ॥ १८ ॥
एतत्परिहरति ।
Aho! Shrutgyanam