________________
न्याय तात्पर्यदीपिका। कयामभ्युपगम्य सभ्येषु मिलितषु ब्रवीत्यद्य मे महत्प्रयोजनमस्ति । तस्मिन्नवसिते पश्चात्कथयिष्यामोति ॥
स्पष्टम् । तत्रायं वक्तव्य शेषः। यदि तत्प्रयोजनं सभ्या अभ्युपपद्यरंस्तदा कथां विच्छिन्दतोऽपि न निग्रहोऽन्यथा निग्रह एव ॥ २४४ ॥ मतानुज्ञां प्रज्ञापयति । __ स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रमङ्गो मतानुजेति ॥
यः परेणापादितं दोषम नुहत्याभ्युपगम्य च ब्रवीति भवत्यक्षेऽप्ययं दोषः समान दूति म परमतानुज्ञानान्मतानुज्ञा नाम निग्रहस्थानमापद्यते ॥ २४५ ॥ एतदेव व्याचष्टं। __ यः स्वपक्षे मनागपि दोषं न परिहरति । केवलं परपक्षे दूषणं प्रसञ्जयति । भवांचौर इत्युक्त त्वमपि चौर इति । तस्येदं निग्रहस्थानम् । स्वयं दोषाभ्युपगमात् परेणानभ्युपगमादिति ॥
परेण चौरी भवान् पुरुषत्वाविशेषात् प्रसिद्धचौरवदित्युक्ते स आह। भवानपि चौरः पुरुषत्वाविशेषादिल्य प्रतिषिद्धमनुमतमिति न्यायादहं चोरोऽस्मोति स्वयमनभ्युपगच्छन्नपि चौरो भवतीति भावः ॥ १६ ॥ पर्यनुयोज्योपक्षणमाख्याति ।
निग्रहं प्राप्तस्यानिग्रह: पर्यनुयोज्योपेक्ष गमिति ॥ पर्यनुयोज्योपेक्षणं नामेदं तब निग्रहस्थानमायातमतो निगृहीतोऽसौति निग्रहोपपत्त्या चोदनीयस्तं य उपेक्षते नानुयुक्त
Aho! Shrutgyanam.