________________
२०२
न्यायतात्पर्यदीपिका ।
भावात् । यद्यप्यधिकात् पुनरुक्तं न भिद्यते तथापि शिष्यधी
भङ्गा पुनरुक्तं पृथगुक्तम् ॥ २३७ ॥
अननुभाषणमाभाषते ।
विज्ञातस्य परिषदा विरभिहितस्याप्यप्रत्यच्चारणमननुभाषणं प्रतिवादिनो निग्रहस्थानमिति ॥
परिषदादिविदितस्य वादिना विरुच्चरितस्यापि वाक्यस्य यदप्रत्युच्चारणं तदननुभाषणं नाम प्रतिवादिनो निग्रहस्थानं भवति । प्रतिवादिन इति चोपलचणं तेन प्रतिवादिप्रतिपादितदूषणस्यानुच्चारणे वादिनोऽपि निग्रहो ज्ञेयः ॥ २३८ ॥
अत्र युक्तिमाह ।
अप्रत्युच्चारयन् किमाश्रयः परपक्षप्रतिषेधं ब्रूयादिति अप्रत्युच्चारयन् वाद्युक्तमननुवदन् किमाश्रयः किमाधारः सन् परपक्षनिषेधमभिदध्यात् । अयमर्थः । यदि प्रतिवादी परोक्तं नानुवदेत्तर्हि कथं स प्रतिपक्षं दूषयेत् । यतः सर्वोऽपि परोक्तमनूद्यैव दूषयति । एतेन दूष्यमात्रस्याम्यनुवदनं प्रत्यसमर्थस्येदं दूषणमुक्तम् । न सर्वानुवादासमर्थं प्रति । तस्य व्यर्थत्वात् ॥ २३८ ॥ अज्ञानं प्रज्ञापयति ।
अविज्ञातार्थं चाज्ञानम् ॥ परिषदावगतार्थमपि वाक्यं यत्त्र प्रतिवादी स्वयं प्रति
*
The Test reads कुर्य्यात् instead of ब्रूयात् (See page 25,
Lius 12.
Aho! Shrutgyanam